पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७४
[ब्रह्मानंदे विषयानंद
पञ्चदशी

असत्ता जाड्यदुःखे द्वे मायारूपत्रयं त्विदम् ॥ २२॥

 स्पष्टोऽर्थः ॥२२९॥

मायात्रितयस्य स्फुरणस्थलनिर्णयः ।

 तेषां स्फुरणस्थानमाह,असत्तेति ।

असता नरश्रृंगादौ जाड्यं काष्ठशिलादिषु ॥ २३ ॥
घोरमूढधियोर्दुःखमेवं माया विजृंभिता ॥ २३ ॥

 स्पष्टः पूर्वार्धः । फलितमाह, घोरेति । एवं घोरमूढधियोः राजसतामस बुद्ध्योः दुःखं स्फुरति । एवं मायाशक्तिः जगति विजृंभिता समन्ततो व्याप्त ।

 ब्रह्मणो मिश्रत्वमुपपादयति, शान्तेति ।

शान्तादिबुद्धिवृत्यैक्यान्मिश्रं ब्रह्मेति कीर्तितम् ॥ २४॥

 शान्तादिबुद्धिवृत्यैक्यात् सात्विकराजसतामसवृत्तिभिरैक्यात् विवेचना भावात् ब्रह्ममिश्रितमितीरितमिति २१ श्लोके उक्तम् ॥ २४ ॥

मिश्रब्रह्मध्यानप्रकारविचारः ।

 एवमभिधानस्य प्रयोजनमाह,एवमिति ।

एवं स्थितेऽत्र यो ब्रह्म ध्यातुमिच्छेत्पुमानसौ।
नृश्रृंगादिमुपेक्षेत शिष्टं ध्यायेद्यथायथम् ॥ २५ ॥

 मायायाः ब्रह्मणश्चैवं रूपत्रये स्थिते सति यः पुमान् ब्रह्म ध्यातुमिच्छेत् असौ नृश्रृंगादि नृश्रृंगादिरूपमायोपाधिं उपेक्षेत शिष्ट ब्रह्म यथायथं यथायोग्यं ध्यायेत् नृश्रृंगादि विप्रायाऽन्यत्र ब्रह्म ध्यायेदिति भावः ॥२५॥

 यथायथमित्यस्याशयं विवृणोति, शिलेति ।

शिलादौ नामरूपे द्वै त्यक्त्वा सन्मात्रचिन्तनम् ।
त्यक्त्वा दुःखं घोरमूढधियोः सच्चिद्विचिन्तनम् ॥ २६ ॥