असत्ता जाड्यदुःखे द्वे मायारूपत्रयं त्विदम् ॥ २२॥ |
स्पष्टोऽर्थः ॥२२९॥
मायात्रितयस्य स्फुरणस्थलनिर्णयः ।
तेषां स्फुरणस्थानमाह,असत्तेति ।
असता नरश्रृंगादौ जाड्यं काष्ठशिलादिषु ॥ २३ ॥ |
स्पष्टः पूर्वार्धः । फलितमाह, घोरेति । एवं घोरमूढधियोः राजसतामस बुद्ध्योः दुःखं स्फुरति । एवं मायाशक्तिः जगति विजृंभिता समन्ततो व्याप्त ।
ब्रह्मणो मिश्रत्वमुपपादयति, शान्तेति ।
शान्तादिबुद्धिवृत्यैक्यान्मिश्रं ब्रह्मेति कीर्तितम् ॥ २४॥ |
शान्तादिबुद्धिवृत्यैक्यात् सात्विकराजसतामसवृत्तिभिरैक्यात् विवेचना भावात् ब्रह्ममिश्रितमितीरितमिति २१ श्लोके उक्तम् ॥ २४ ॥
मिश्रब्रह्मध्यानप्रकारविचारः ।
एवमभिधानस्य प्रयोजनमाह,एवमिति ।
एवं स्थितेऽत्र यो ब्रह्म ध्यातुमिच्छेत्पुमानसौ। |
मायायाः ब्रह्मणश्चैवं रूपत्रये स्थिते सति यः पुमान् ब्रह्म ध्यातुमिच्छेत् असौ नृश्रृंगादि नृश्रृंगादिरूपमायोपाधिं उपेक्षेत शिष्ट ब्रह्म यथायथं यथायोग्यं ध्यायेत् नृश्रृंगादि विप्रायाऽन्यत्र ब्रह्म ध्यायेदिति भावः ॥२५॥
यथायथमित्यस्याशयं विवृणोति, शिलेति ।
शिलादौ नामरूपे द्वै त्यक्त्वा सन्मात्रचिन्तनम् । |