एव केनचित् प्रतिहतः क्रोधात्मना परिणमते । अथवा प्रतिकूलतः सिद्धगृहक्षेत्रादेः प्रतिकूलवर्तनेन सुखप्रतिकूलस्य दुःखस्य सत्वातत्र कदाचिद्धिंसादिजनकचित्तवृत्तेरज ननेऽपि द्वेषः असंभाषणगाल्यदानाद्यनुकूला चित्तवृत्तिर्भवेत् ॥१५॥
द्वेषस्य तामसत्वातिदुःखकारणत्वमित्याह, अशक्य इति ।
अशक्यश्चेत्प्रतीकारो विषादः स्यात्स तामसः । |
स्पष्टोऽर्थः विषादस्य तामसत्वान्न तन्न सुखमिति भावः ॥ १६ ॥
शान्तासु सुखानुभवनिरूपणम् ।
कामलाभस्य सुखतरकारणत्वमाह, काम्येति ।
काम्यलाभे हर्षवृत्तिः शान्ता तत्र महत्सुखम्।। |
पूर्वार्धः स्पष्टः । भोगे अनुभवसमये महत्सुखं महत्तरं भवति । लाभप्रसक्तौ सत्यां लाभाSSभिमुख्ये सति ईषदेव हि स्वल्पमेव हि भवति ॥ १७ ॥
वैराग्यस्य महतमसुखकारणत्वमाह, महत्तममिति ।
महत्तमं विरक्तौ तु विद्यानन्दे तदीरितम् ।। |
पूर्वार्धः स्पष्टः । क्षान्तौ तथा औदार्यंे क्रोधलोभनिवारणात् एवं । महत्तमं सुखं स्यात् ॥१८॥
यद्यत्सुखं तत्सर्वं ब्रह्मानन्दप्रतिबिंबनात् ब्रह्मैवेत्याह, यदिति।
यद्यत्सुखं भवेत्तत्तद्बवैव प्रतिबिंबनात् । |
यद्यत्काम्यप्रसक्तिलाभभोगादिनिमित्तं वा वैराग्यसमुत्पन्नं वा सुखं भवेत्