तत्तत्सर्वं ब्रह्मानन्दस्य प्रतिबिंबनात् प्रतिफलनात् हारभूतवादित्यर्थः ब्रह्मैव भवति । अन्तःकरणस्य वृर्तिषु अन्तर्मुखासु सतीषु विषयेष्वपि लब्धेषु तदिच्छोपरमे सति । अन्तर्मुखमनोवृत्तावानन्दः प्रतिबिंबती (११-८६) त्युक्तरीत्या अस्य ब्रह्मणः प्रतिबिंबनं निर्विघ्नं भवति । बाह्यवस्तुपरित्यागे हर्षादिवृत्तयो यदान्तर्मुखा भवन्ति तदा ब्रह्मानन्दस्य द्वारीभवन्तीति भावः ॥ ११॥
सच्चिदानन्दस्फुरणस्थलनिरूपणम् ।
सर्वत्र वृत्तिषु यद्यद्वृत्तौ यद्यदूषेण ब्रह्मस्वरूपानुभवस्तप्रदर्शनाय तत्स्व- रूपं स्मारयति, सत्तेति ।
स त चितिः सुखं चेति खभावा ब्रह्मणस्त्रयः ॥१९॥ |
स्पष्टोऽर्थः । सचिदानन्दस्वरूपं ब्रह्मैवेत्यर्थः ॥१९॥
सतादित्रयाणां स्फुरणस्थानान्याह,मृदिति ।
मृच्छिलादिषु सत्तैव व्यज्यते नेतरद्वयम् ॥ २० ॥ |
तत्र सतैव । अस्तितामात्रधर्म एव मृच्छिलादिष्वचेतनेषु व्यज्यते । घटो ऽस्तीति व्यवहारात् । इतरद्वये चिदानन्दरूपं न व्यज्यते । अत्यन्तमालिन्यस्वभा वात् । घोरमूढयोः धीवृत्योः सत्ता चितिश्व द्वयं व्यक्तं भवति । शान्तवृत्तौ तु सच्चिदानन्दरूपं त्रयं व्यक्तं भवति । इत्थं मायामित्रं ब्रह्म, ईरितम् ॥२१॥
अमिश्रब्रह्मानुभवस्थानमाह, अमिश्रमिति ।
अमिश्रं ज्ञानयोगाभ्यां तौ च पूर्वमुदीरितौ । |
स्पष्टः पूर्वार्धः । पूवोक्तप्रकारं विशदयति, आद्य इति । आधेऽध्याये । योगानन्दाध्याये अध्याययोर्द्वयोः आत्मानन्दाद्वैतानन्दाध्याययोः ॥२२॥
अथ मायायाः रूपमाह,असत्तेति ।