|
व्याख्या |
अतितुङ्गस्याऽत्युच्चस्य‘उच्चप्रांशून्नतोदग्रोच्छूितास्तुंगे' इत्यमरः।रणाङ्गणेषु समरभूमिद्गतोन्नता कन्धरा ग्रीवा येषां तानेव ऊर्ध्वस्थितग्रीवानुद्धतानेवेत्यर्थः । नृपान् हठात्प्रसभं प्रहर्तुर्नाशयितुर्यस्य राजकुमारस्य कृपाणस्य खङ्गस्य प्रहारस्येत्यर्थः । प्रतिषेधो निषेधस्तस्य मार्गः पन्थाः कृपाणप्रहारजनितस्वनाशाद्रक्षणोपश्य इत्यर्थः । नृपाणां विपक्षाणां राज्ञां नम्रभावाद्विनयेन पराजयस्वीकारादपरोऽन्योनाऽऽसीत् । ये खलून्नतां ग्रीवां कृत्वा तेन सार्द्धमभिमानेन युद्धाय समागतास्तेषामेव नाशो जातः । ये खलु नम्रभावादस्य पुरतः पराजयं स्वीचकुस्ते तुसुरक्षिता इति भावः ।
|
भाषा |
रणभूमि में अभिमान से ऊँची गर्दन कर युद्ध के लिये आने वालों को ही चुन २ कर मारने वाले उस अत्युन्नत राजपुत्र की तलवार के प्रहार से विपक्षी राजाओं को बचने का उपाय, नम्रता से पराजय स्वीकार कर लेने के अतिरिक्त दूसरा नहीं था ।
|
व्याजावतीर्णेन जनार्दनेन तेनोदरे हाररुचिच्छटाभिः । |
|
नाभीसरोजोद्गमवारणाय संचारिता चन्द्रमसः प्रभेव ॥७०॥ |
|
अन्वयः |
व्याजावतीर्णेन जनार्दनेन तेन उद्रे हाररुचिच्छटाभिः नाभीसरोजोद्ग मवारणाय चन्द्रमसः प्रभा संचारिता इव ।
|
व्याख्या |