सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या

 अतितुङ्गस्याऽत्युच्चस्य ‘उच्चप्रांशून्नतोदग्रोच्छूितास्तुंगे' इत्यमरः । रणाङ्गणेषु

समरभूमिद्गतोन्नता कन्धरा ग्रीवा येषां तानेव ऊर्ध्वस्थितग्रीवानुद्धतानेवेत्यर्थः । नृपान् हठात्प्रसभं प्रहर्तुर्नाशयितुर्यस्य राजकुमारस्य कृपाणस्य खङ्गस्य प्रहारस्ये त्यर्थः । प्रतिषेधो निषेधस्तस्य मार्गः पन्थाः कृपाणप्रहारजनितस्वनाशाद्रक्षणोपश्य इत्यर्थः । नृपाणां विपक्षाणां राज्ञां नम्रभावाद्विनयेन पराजयस्वीकारादपरोऽन्यो नाऽऽसीत् । ये खलून्नतां ग्रीवां कृत्वा तेन सार्द्धमभिमानेन युद्धाय समागता स्तेषामेव नाशो जातः । ये खलु नम्रभावादस्य पुरतः पराजयं स्वीचकुस्ते तु सुरक्षिता इति भावः ।

                    भाषा
 रणभूमि में अभिमान से ऊँची गर्दन कर युद्ध के लिये आने वालों को ही

चुन २ कर मारने वाले उस अत्युन्नत राजपुत्र की तलवार के प्रहार से विपक्षी राजाओं को बचने का उपाय, नम्रता से पराजय स्वीकार कर लेने के अतिरिक्त दूसरा नहीं था ।

व्याजावतीर्णेन जनार्दनेन तेनोदरे हाररुचिच्छटाभिः । नाभीसरोजोद्गमवारणाय संचारिता चन्द्रमसः प्रभेव ॥७०॥

                   अन्वयः

व्याजावतीर्णेन जनार्दनेन तेन उद्रे हाररुचिच्छटाभिः नाभीसरोजोद्ग मवारणाय चन्द्रमसः प्रभा संचारिता इव ।

                   व्याख्या