पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा

विक्रमाङ्कदेव ने शरण में आए हुए मालवा के राजा को निष्कण्टक राज्य

पर पुनः बैठा दिया । बहुत से अन्य राजाओं ने अपनी कन्याओं का उसके साथ विवाह कर देने के मिष से अपना सर्वस्व उसको समर्पण कर दिया ।

 त्रिलोकवीरः कियतो विजिग्ये न दुर्दमानां प्रतिपार्थिवानाम् ।
 दोर्विक्रमेणाद्भुतसाहसेन महाहवानाहवमल्लसूनुः ॥६८॥   
                 अन्वयः
त्रिलोकवीरः श्राहवमल्लसूनुः अद्भुतसाहसेन दोर्विक्रमेण दुर्दमानां

प्रतिपार्थिवानां कियतः महाहवान् न विजिग्ये ।

                 व्याख्या
त्रिलोके भुवनत्रये वीर एकशूर आहवमल्लस्य सूनुः पुत्रो विक्रमाङ्कदेवोऽ

द्भुतं चित्रं साहसं दमो यस्य सः ‘साहसं तु दमो दण्डः' इत्यमरः । तेन दोष्णोर्भुजयोर्विक्रमः पराक्रमस्तेन दुःखेन दमयितुं वान्तुं दण्डयितुं शक्या दुर्दमास्तेषां दुर्दमानां दुर्जेयानां प्रतिपार्थिवानां विपक्षिनृपाणां शत्रूणामित्यर्थः । कियतः कतिसंख्याकान् महाहवान् महासमरान्न विजिग्ये न जयति स्म । बहुसंख्यानि महायुद्धानि जयति स्मेति भावः । अत्रार्थापत्त्यलङ्कारः ।

                 भाषा

तीनों लोकों में अपनी वीरता का सानी न रखने वाले आहवमल्ल राजा के पुत्र विक्रमाङ्क देव ने, विचित्र दमनशक्ति से युक्त अपनी भुजाओं के पराक्रम से अनेक दुर्दान्त विपक्षी राजाओं के अर्थात् शत्रुओं के कितने महायुद्धों को नहीं