पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा

  विक्रमाङ्क देव के छद्म से अवतीर्ण विष्णु ने अपनी नाभी में से कमल की

उत्पत्ति को रोकने के लिये, अपने पेट पर के मोती के हार की उज्वल कान्ति से मानों चन्द्रमा की चांदनी फैला दी थी । अर्थात् चन्द्रिका में कमल नष्ट होते है इसलिये मोती के हार की मानों चांदनी की ऐसी चमक फैला कर कमल कृी उत्पत्ति रोक दी ।

  न भोजराजः कविरञ्जनाय मुञ्जोऽथवा कुञ्जरदानदक्षः ।
  हस्ताम्बुजे तस्य गुणिप्रियस्य सहर्षमाविष्कृतहेमवर्षे ॥७१॥
                   अन्वयः
 गुणिप्रियस्य तस्य सहर्षम् आविष्कृतहेमवर्षे हस्ताम्बुजे (सति) कुञ्जर

दानदक्षः भोजराजः अथवा मुञ्जः कविरञ्जनाय न ।

                   व्याख्या
 गुणिनो गुणवन्तः प्रिया यस्य स तस्य गुणिप्रियस्य तस्य राजकुमारस्य

विक्रमाङ्कदेवस्य हर्षेण सहितं सहर्ष सानन्दमाविष्कृतं प्रकटीकृतं हेम्नः सुवर्णस्य वर्ष वृष्टिर्येन स तस्मिन् हस्त एवाम्बुजं कमलं तस्मिन् करकमले विराजमाने सति कुञ्जराणां हस्तिनां दानं प्रदानं तस्मिन् दक्षः प्रवीणो भोजराजो धाराधी शोऽथवा मुञ्जजस्तत्पूर्ववर्ती मुञ्जनामनृपः कवीनां रञ्जनं प्रसन्नीकरणं तस्मै करिदानद्वाराऽपि कवीनां मनः प्रसादाय न, न तथा समर्थ इति भावः ।

                    भाषा