पृष्ठम्:मृच्छकटिकम्.pdf/२०२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
मृच्छकटिके

 विटः---किमुच्यते । गन्धर्वो भवान् ।

 शकारः--कधं गंधव्वे ण भविश्शं ?।

हिंगुञ्जले जीलकभदृमुश्ते वचाह गंठी शगुडा अ शुंठी ।
एशे मए शेविद गंधजुत्ती कधं ण हग्गे मधुलश्शले त्ति ॥ १३॥

भावे | पुणो वि दाव गाइश्शं । ( तथा करोति ) भावे भावे । शुदं तुए जं मए गाइदं ? । [ कथं गन्धर्वो न भविष्यामि ?

हिङ्गूज्वला जीरकभद्रमुस्ता वचाथा ग्रन्थिः सगुडा च शुण्ठी ।
एषा मया सेविता गन्धयुक्तिः कथं नाहं मधुर स्वर इति ॥

भाव ! पुनरपि तावद्गास्यामि । भाव भाव ! श्रुतं त्वया यन्मया गीतम् ? । ]

 विटः----किमुच्यते-गन्धर्वो भवान् ? ।।

 शकारः–कधं गंधव्वे ण भवामि ? ।।

हिंगुज्जले दिण्णभलीचचुषण्णे वग्घालिदे तेल्लघिएण मिश्शे।
भुत्ते भए पालहुदीअमंशे कधं या हग्गे मधुलश्शलेत्ति ॥ १४ ॥

घि भावे, ! अज वि चेडे णाअच्छदि । [कथं गन्धर्वो न भवामि ? ।

हिज्वलं दत्तमरीचचूर्ण व्याघारितं तैलधृतेन मिश्रम् ।
भुक्तं मया पारभृतीयमसिं कथं नार्ह मधुरस्वर इति ॥

भाव ! अद्यापि चेदो नागच्छति ।।

 विटः----स्वस्थो भवतु भवान्, संप्रत्येवागमिष्यति ।

( ततः प्रविशति प्रवहणाधिरूढा वसन्तसेना चेटश्च )

 चेटः-भीदे खु हग्गे, मज्झण्हिके शुज्जे । मा दाणि कुविदे


हिंगुज्जेत्यादि । उपजातिच्छन्दसा । हिङ्गूज्वलौ जीरकभद्रमुस्तकौ बचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता ग्रन्थयुक्तिः कथं नाहं मधुर स्वर इति ॥ १३ ॥ हिंगुञ्जले इति । हिफूज्वलं दत्तमरीच चूर्णं व्याघारितं तैलधृतैर्मिश्रम् । भुक्तं मया पारमृतीयं मांस कथं नाहं मधुर स्वर इति ॥ १४ ॥ हिङ्गूज्वलचूर्णं परभृतीयमांसेन टिप्प०-] पारभृतीयं कोकिलस्थ मांसम् । केचित्तु पारभृतमुपायनं तस्येदं पारभृतीयमित्याहुः ।