पृष्ठम्:मृच्छकटिकम्.pdf/२०१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
अष्टमोऽङ्कः

 [भाव ! कापि वेला स्थावरकचेटस्य भणितस्थ ‘प्रवहण गृहीत्वा लघु लघ्वागच्छ इति । अद्यापि नागच्छतीति । चिरमस्मि बुभुक्षितः । मध्याह्न न शक्यते पादाभ्यां गन्तुम् । तत्पश्य पश्य

नभोभध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृक्षः ।
भूमिर्दढसंतप्ता हतपुत्रशतेव गान्धारी ॥]

 विटः--एवमेतत् ।

छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकुलं
तृष्णार्तैश्च निपीयते वनमृगैरुष्णं पयः सारसम् ।
संतापादतिशङ्कितैर्न नगरीमार्गो नरैः सेव्यते ।
तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित्संस्थितम् ॥ ११ ॥

 शकारः--भावे !

शिलशि मम णिलीणे भाव शुज्जश्श पादे
शउणिखगविहंगा लुक्खशाहाशु लीणा ।
णलपुलिशमणुश्शा उण्हदीहं शशंता
घलशलणणिशण्णा आदवं णिव्वहंति ॥ १२ ॥

भावे । अज्ज वि शे चेडे णाअच्छदि । अत्तणो विणोदणणिमित्त किं पि गाइश्शं ( इति गायति ) भावे । भावे ! शुदं तुए जे मए गाइदं ।। [ भाव !

शिरसि मम निलीनो भाव ! सूर्यस्य पादः
शकुनिखगविहङ्गा वृक्षशाखासु लीनाः ।
नरपुरुषमनुष्या उष्णदीर्घं श्वसन्तो।
गृहशरणनिषण्णा आतपं निर्वहन्ति ।

भाव ! अद्यापि स चेट नागच्छति । आत्मनो विनोदननिमित्तं किमपि गास्यामि । भाव भाव ! श्रुतं त्वया यन्मया गीतम् ? ।]


ढसंतप्ता हतपुत्रशतेव गान्धारी । गान्धारी दुर्योधनादिपुत्रशतमाता ॥ १० ॥ छायास्विति ॥ ११ ॥ शिलशीत्यादि । मालिन्या श्लोकः । शिरसि मम निलीनो भाव सूर्यस्य पादः शकुनिखगविहङ्गा वृक्षशाखासु लीनाः । नरपुरुष- मनुष्या उष्णदीर्घ श्वसन्तो गृहशरणनिषण्णा आतपं प्रेरयन्ति ॥ १२ ॥ मृ० १३