पृष्ठम्:मृच्छकटिकम्.pdf/२०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
अष्टमोऽङ्कः

लाअशालशंठाणे हुविश्शदि । ता तुलिदं वहामि । जाध गोणा ! जाध । [भीतः खल्वहम् , माध्याह्निकः सूर्यः । नेदानीं कुपितो राजश्यालसंस्थानको भविष्यति । तत्वरितं वहामि । यातं गावौ ! यातम् । ]

 वसन्तसेना- हद्धी हद्धी, ण हु वड्ढमाणअस्स अअं सरसंजोओ । किं णेदं ? । किं णु खु अज्ज चारुदत्तेण वाहणपडिस्सम परिहरंतेण अण्णो मणुस्सो अण्णं पवहणं पेसिदं भविस्सदि १ । फुरदि दाहिणं लोअणं, वेवदि में हिअअं, सुण्णाओ दिसाओ, सव्वं ज्जेव विसंठुलं पेक्खामि । [हा धिक् हा धिक्, न खलु वर्धमानकस्यायं स्वरसंयोगः । किं न्विदम् ? किं नु खल्वार्यचारुदत्तेन वाहनपरिश्रमं परिहरतान्यो मनुष्योऽन्यत्प्रवहणं प्रेषितं भविष्यति ? । स्फुरति दक्षिणं लोचनम्, वेपते मे हृदयम्, शून्या दिशः, सर्वमेव विसंष्ठुलं पश्यामि । ]

 शकारः---( नेमिधोषमाकर्त्य ) भावे भावे अगदे पवहणे । [ भाव भाव! आगतं प्रवहणम् ।]

 विटः–कथं जानासि १ ।।

 शकारः किं ण पेक्खदि भावे ? बुङ्ढशुअले विअ घुलघुलाअमाणे लक्खीअदि । किं न पश्यति भावः १ वृद्ध शूकर इव घुरघुरायमाणं लक्ष्यते । ]

 विटः--( दृष्ट्वा ) साधु लक्षितम् अयमागतः ।

 शकारः-पुत्तका थावलका चेडा ! अगदे शि? [पुत्रक स्थावरक घेट ! आगतोऽसि ।]

 चेटः---अध इं । [ अथ किम् ।]


सह मया भुक्तं ततः कथं न मधुरस्वरोऽहम् । घनद्रवः कर्मणि यन् तः (१) ॥ किं न प्रेक्षते भावः । वृद्धसुकर इव । घुरघुरेत्यव्यक्तशब्दानुकरणम्। अव्यक्तं शब्दं कुर्वाणो