पृष्ठम्:मालविकाग्निमित्रम्.djvu/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
॥ तृतोयोङ्कः ॥
राजा । वयस्य इतस्तावदावां लतान्तरितौ भवावः।
विदुषकः। १इरावदीं विअ दूरे समथ्थेमि।
राजा। न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतंगजः । विलोकयन्स्थितः।
मालविका । २हिअअ णिफ़्फ़लादो मणोरहादो विरम। किं मं
आआसअसि ।
विदूषकः। राजानमवेक्षते।
राजा । प्रिये पश्य वामतां स्नेहस्य।
औत्सुक्यहेतुं विवृणोषि न त्वं
तत्त्वावबोधैकरसो न तर्कः।
तथापि रम्भोरु करोमि लक्ष्यम्
आत्मानंमेषां परिदेवितानाम्॥१०॥
विदूषक्ः। ३संपदं भअदो णिस्संसओ भविस्सदि। एसा
अप्पिअमअणसंदेसा विवित्ते णं बउलावलिआ उवठ्ठिदा।
राजा। अपि स्मरेदस्मदभ्यर्थनाम्।

१.इरावतीमिव दूरे समर्थयामि।
२.हृदय निष्फलान्मनोरथाद्विरय। किं मामायासयसिः।
३.सांप्रतं भवतो निःसंशवो भविष्यति। एषामिंतमदनसंदेशा विविक्तें ननु
बकुलावलिकोपस्थिता।

2. B समथ्थेम्हि ।
5. F णिरवलम्बादो for "णिफ्फलादो"--
A C अआसअसि
8. A B C D E read आत्ममतम् be-
fore "प्रिये पश्य" &c.
13. E F भवदो‌-E णिःसंसयो; F
णिःसंसअं- A C add त्ति
after "भविस्सदि" [उपठ्ठिआ
14. F एआ(=एका)for"णं"-E
16. A C अयि for"अपि"