पृष्ठम्:मालविकाग्निमित्रम्.djvu/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
॥ मालविकाग्निमित्रम् ॥
विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।
अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥
सखे पूर्वस्मादवस्थान्तरमारूढा तत्रभवती । तथा हि ।
शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।
माधवपरिणतपला कतिपयकुसुमेव कुन्दलता ॥ ८ ॥
विदूषकः[१]एसावि भवं विअ मअणवाहिणा परिमिठ्ठा भविस्सदि ।
राजा । सौहार्दमेवं पश्यति ।
मालविका[२]अअं सो ललिअदोहलापेख्खी अगहीदकुसुमणेवथ्थो
उक्कण्ठिदं मं अणुकरेइ असोओ । जाव से
पछ्छाअसीअले सिलापट्टे णिसण्णा भविअ अत्ताणं
विणोदेमि ।
विदूषकः[३]सुदं भवदा उक्कण्ठिदम्हित्ति तत्तहोदीए मन्तिदं,
राजा । नैतावता भवन्तं प्रसन्नतर्कं मन्ये । कुतः
वोढा कुरबकरजसां किसलयपुटभेदसीकरानुगतः ।
अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥
मालविका । उपविष्टा ।

9. A C D दोहलापेखो.-B अग्गहीद-
- A C D E णेवछ्छो.
10. B करेदि.
11. F पछ्छाय
13. A. तत्तहोदिए.[मन्ये.
14. F नैतावता [ भवतः ? ] प्रसन्नतर्कतां

  1. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति ।
  2. अयं स ललितदोहदापेक्ष्यगृहीतकुसुमनेपथ्य उत्कण्ठितां मामनुकरोत्यशोकः । तावदस्य प्रच्छायशीतले शिलापट्टे निषण्णा भूत्वात्मानं विनोदयामि ।
  3. श्रुतं भवतोत्कण्ठितास्मीत्यत्रभवत्या मन्त्रितम् ।
6