पृष्ठम्:मालविकाग्निमित्रम्.djvu/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
॥ तृतोयोङ्कः ॥
परिक्रामति ।
विदूषक।1 ही ही इअं सीधुपाणुव्वेजिअस्स मछ्छण्डिआ
उवणदा ।
राजा। अयि किमेतत् ।
विदूषकः । एसा ख्खु णादिपज्जत्तवेसा उस्सुअवण्णा विअ
एआइणी मालविआ अदूरे वट्टइ ।
राजासहर्षम् । कथं मालविका ।
विदूषकः । 2अह इं ।
राजा । शक्यमिदानीं जीवितमवलम्बितुम् ।
त्वदुपलभ्य समीपगतां प्रियां
हृदयमुच्छ्वसितं मम विक्लवम् ।
तरुवृतां पथिकस्य जलार्थिनः
सरितमारासितादिव सारसात् ॥ ६ ॥
अथ क्व तत्रभवती ।
विदूषकः ।3 एसा णं तरुराइमझ्झदो णिक्कन्दा इदो ज्जेव्व
आअछ्छदि ।
राजा। वयस्य पश्याम्येनाम् ।

१. ही ही इयं सोधुपानोद्वेजितस्य मत्स्यण्डिकोपनता ।
२. एषा खलु नातिपर्याप्तवेषोत्सुकवर्णेवैकाकिनी मालविकादूरे तिष्ठति ।
३. अथ किम् ।
४. एषा ननु तरुराजिमध्यान्निष्कान्तेत एवागच्छति ।

2. A C D मत्सण्डिआ.
15. F' णिग्गदा– D जेव्व.
16. D E F आअछ्छइ-
1. A om. "वयस्य."