पुटमेतत् सुपुष्टितम्
३९
॥ मालविकाग्निमित्रम् ॥
। उभावुद्यानशोभां निर्वर्णयतः ।
। ततः प्रविशति पर्युत्सुका मालविका ।
- मालविका । 1अणभिण्णादहिअअं भट्टारं अभिलसन्दी अप्पणोवि दाव लज्जेमि । कुदो विहवो सिणिध्धअणस्स
- वुत्तन्तं आचख्खिदुं । ण आणे अप्पडिआरगुरुअं - 5
- वेअणं केत्तिअं कालं मअणो मं णइस्सदित्ति ।कतिचित्पदानि गत्वा । कहिं णु पथ्थिदम्हि । विचिन्त्य । आम संदिठ्ठम्हि देवीए । गोदमचावलादो डोलापरिभट्टा ण सक्कुणोमि अहं चलणे चालइदुं । तुमं दाव तवणीआसोअस्स
- दोहलं णिव्वत्तेहि । जादि स पञ्चरत्नभ्भन्तरे कुसुमं 10
- दंसेइ तदोहं- । अन्तरा निःश्वस्य । आहिलासपूरइत्तअं पसादं
- दाइस्संति । दाव णिओअभूमिं पुढमं गदा होमि ।
- जाव अणुपदं मह चलणालंकारहथ्थाए बउलावलिआए
- आअन्तव्वं परिदेविस्सं दाव विस्सध्धं मुहुत्तअं ।
- १. अनभिज्ञानहृदयं भर्तारमभिलषन्त्यात्मनोपि तावल्लज्जे । कुतो विभवः स्निग्धजनस्य वृत्तान्तमाख्यातुम् । न जानेपरिहारगुर्वी वेदनां कियन्तं काले मदनो
- मां नेष्यतीति । क्व नु प्रस्थितास्मि । आम् संदिष्टास्मि देव्या । गौतमचापलाद्दोलापरिभ्रष्टा न शक्नोम्यहं चरणौ चालयितुम् । त्वं तावत्तपनीयाशोकस्य दोहदं
- निर्वर्तय । यदि स पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति तदाहम्-अभिलाषपूरकं
- प्रसादं दास्यामीति । तावन्नियोगभूमिं प्रथमं गता भवामि । यावदनुपदं मम
- चरणालंकारहस्तया बकुलावलिकयागन्तव्यं परिदेविष्ये तावद्विश्रब्धं मुहर्तकम् ।
|
|