पृष्ठम्:मालविकाग्निमित्रम्.djvu/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
॥ तृतोयोङ्कः ॥
राजा । स्पर्शं निरूप्य ।अभिजातः किल वसन्तः ।
सखे पश्य
आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां
सानुक्रोशं मनसिजरूजः सह्यतां पृच्छतेव ।
अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारूतो मे
सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥४॥
विदूषकः । 1पविस णिवुदिलाहाअ ।
।उभौ प्रविशतः।
विदूषकः ।2भो वअस्स अवधाणेण दाव दिठ्ठिं देहि ।एदं स्वु भवन्तं विलोहइदुकामाए पमदवणलछ्छीए जुवईवेसलज्जाइत्त्तअं वसन्तकुसुमणेवथ्थअं गहिअं ।
राजा । ननु विस्मयादवलोकयामि ।
रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः
प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् ।
आक्रान्ता तिलकक्रियापि तिलकैर्लीनद्विरेफाञ्जनैः
सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥५॥

१. प्रविश निर्वृतिलाभाय ।
२. भो वयस्य अवधानेन तावद्दृष्टिं देहि । एतत्खलु भवन्तं विलोभयितुकामया प्रमदवनलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् ।

1. F reads रूपयित्वा, and never
puts नि before रूपम् used in
stage-directions occurring
subsequently.
4. B सह्यते.
7. AC णिउ०.
9. A E वयस्य. —B.अवहाणेण.
10. A B C D E भवन्ते विअ लोह-
इदुकामाए.
11. A B C D E °लज्जावइत्तअं.---
A B C D E गाहिअं.