पुटमेतत् सुपुष्टितम्
४२
॥ तृतोयोङ्कः ॥
- राजा । वयस्य इतस्तावदावां लतान्तरितौ भवावः।
- विदुषकः। १इरावदीं विअ दूरे समथ्थेमि।
- राजा। न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतंगजः । विलोकयन्स्थितः।
- मालविका । २हिअअ णिफ़्फ़लादो मणोरहादो विरम। किं मं
- आआसअसि ।
- विदूषकः। राजानमवेक्षते।
- राजा । प्रिये पश्य वामतां स्नेहस्य।
- औत्सुक्यहेतुं विवृणोषि न त्वं
- तत्त्वावबोधैकरसो न तर्कः।
- तथापि रम्भोरु करोमि लक्ष्यम्
- आत्मानंमेषां परिदेवितानाम्॥१०॥
- विदूषक्ः। ३संपदं भअदो णिस्संसओ भविस्सदि। एसा
- अप्पिअमअणसंदेसा विवित्ते णं बउलावलिआ उवठ्ठिदा।
- राजा। अपि स्मरेदस्मदभ्यर्थनाम्।
- १.इरावतीमिव दूरे समर्थयामि।
- २.हृदय निष्फलान्मनोरथाद्विरय। किं मामायासयसिः।
- ३.सांप्रतं भवतो निःसंशवो भविष्यति। एषामिंतमदनसंदेशा विविक्तें ननु
- बकुलावलिकोपस्थिता।
|
|