पृष्ठम्:मालविकाग्निमित्रम्.djvu/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
॥ मालविकाशिभित्रम् ।


देवी । 1जइ मं पुछ्छसि एदाणं विवादो एव्व ण मे रुच्चइ ।
गण° । न मां देवी समानविद्यतः परिभवनीयमनुमन्तुमर्हति ।
विदूषकः ।2देवि देख्खामो उरभ्भसंवादं । किं मुहा वेअणदाणेण ।
देवी ।3 णं कलहप्पिओसि ।
विदूषकः ।4 मा चण्डि । अण्णोण्णकलहिदाणं मत्तहथ्थीणं
एकतरस्सिं अणिज्जिदे कुदो उवसमो ।
राजा । ननु स्वाङ्गसौष्ठवाभिनयमुभयोर्दृष्टवती भवती ।
परि० । अथ किम् ।
राजा । तदिदानीमतः किमाभ्यां प्रत्याययितव्यम् ।
परि० । एतदेव वक्तुकामास्मि ।
शिष्टा क्रिया कस्यचिदात्मसंस्था
संक्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥

१. यदि मां पृच्छसि एतयोर्विवाद एव न मे रोचते ।
२. देवि पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ।
३. ननु कलह प्रियोसि ।
४. मा चण्डि । अन्योन्यकलहितयोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः।

1. B येव्व.
2. B विद्यातः -F' परिहीनम् for परि -
भवनीयम्.
3. F दख्खामो.
6. A °कलिहदाणं.