पृष्ठम्:मालविकाग्निमित्रम्.djvu/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
॥ प्रथमाङ्कः ॥


राजा। भगवत्यभिवादये।
परिव्राजिका।
महासारप्रसवयोः सदृसशक्षमयोर्द्वयोः।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम्॥१६॥
देवी । 1जेदु अज्जउत्तो।
राजा । स्वागतं देव्यै। परिव्राजिकां विलोक्य। भगवति क्रियतामासनपरिग्रहः।

।सर्वे यथोचितमुपविशन्ति।

राजा । भगवत्यत्रभवतोर्हरदत्तगणदासयोः परस्परेण ज्ञानसंघर्षो जातः। तदत्रभवत्या प्राश्निकपदमध्यासितव्यम्। परिव्राजिका। सस्मितम्। अलमलमुपालम्भेन। पत्तने विद्यमानेपि ग्रामै रत्नपरीक्षा।
राजा । मामेवम्। पण्डितकौशिकी खलु भवती। पक्षपातिनावनयोर्हरदत्तगणदासयोरहं देवी च।
उभौ। सम्यगाह देवः। मध्यस्था भवती नौ गुणदोषतः परिच्छेत्तुमर्हति।
राजा । तेन हि प्रस्तूयतां विवादवस्तु।
परिव्राजिका। देव प्रयोगप्रधानं हि नाट्यशास्त्रम्। किमत्र वाग्व्यवहारेण।
राजा। कथं देवी मन्यते।

१. जयत्वार्यपुत्रः।


5. D E अ-अं.
12. E रत्नपरीक्षणम्.

20. B omits "देवी मन्यते."