पृष्ठम्:मालविकाग्निमित्रम्.djvu/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ मालविकाशिभित्रम् ॥


कञ्चुकी ।यदाज्ञापयति देवः। इति निष्क्रम्य सहपरिव्राजिकया देव्या सह पुनः प्रविश्य । इत इतो देवी धारिणी ।
देवी । परिव्राजिकां विलोक्य । 1’भअवदि हरदत्तस्स गणदासस्स अ संरम्भे कहं पेख्खसि।
परिव्राजिका । अलं स्वपक्षावसादशङ्कया । न च पराजीयते । केनचिद्गणदासः।
देवी ।2जइवि एव्वं तहवि राअपरिग्गहो से पहाणत्तणं उवहरइ।
परिव्राजिका । अयि राज्ञीशब्दभाजनमात्मानमपि तावच्चिन्तयतु भवती। पश्य ।
अतिमात्रभास्वरत्वं पुष्यति भानोः परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोपि निशापरिगृहीतः॥१३॥
विदूषकः। 3अवि हा अवि हा । उवठ्ठिआ पीठमादिअं पण्डिअकोसिई पुराकदुअ देवी ।
राजा । पश्याम्येनाम् । यैषा
मङ्गलालंकृता भाति कौशिक्या यतिवेषया ।
त्रयी विग्रहवत्येव सममध्यामविद्यया ॥ १४ ॥
परिव्राजिका । उपेत्य । विजयतां देवः ।

१. भगवति हरदत्तस्य गणदासस्य च संरम्भे कथं प्रेक्षसे ।
२. यद्यप्येवं तदापि राजपरिग्रहोस्य प्रभुत्वमुपहरति ।
३. अपि हा अपि हा । उपस्थिता पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य देवी।

2. F इतो देवी । इतो धारिणी देवी.
7. A c जई for जइ.
8. A अपि for अयि.
12. B D E उबठ्ठिया-BD पीठमंदियं;
3 corrects its original पीठम-
दियं into पीठमदीयं; F' पठमहिअं
-F' पण्डिद°.
13. B कोसिआं-D E कोसिई.-
-F' पुरोकदुअ.