पृष्ठम्:मालविकाग्निमित्रम्.djvu/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
॥ प्रथमाङ्कः ॥


उभौ । परिजनोपनीतयोरासनयोरुपविष्टौ ।
राजा । किमिदं शिष्योपदेशकाले युगपदाचार्ययोरुपस्थानम् ।
गण० । देव श्रूयताम् । मया तीर्थादभिनयविद्या शिक्षिता। दत्तप्रयोगोस्मि। देवेन देव्या च परिगृहीतः।
राजा । दृढं जाने ।
गण० । सोहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे पादरजसा न तुल्य इत्यधिक्षिप्तः।
हर० ।देव अयमेव मयि प्रथमं परिवादरतः । अत्रभवतः किल मम च समुद्रपल्वलयोरिवान्तरम् । तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकश्च ।
विदूषकः । 1समथ्यं पडिण्णादं ।
गण० । प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति ।
राजा । तिष्ठतु तावत् । पक्षपातमत्र देवी मन्यते । तत्तस्याः पण्डितकौशिक्या सहितायाः समक्षमेव न्याय्यो व्यवहारः।
विदूषकः । 2सुठ्ठु भवं भणादि ।
उभौ । यद्देवाय रोचते ।
राजा । मौद्गल्य अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्धमाहूयतां देवी ।

१. समर्थं प्रतिज्ञातम् ।
२. सुष्ठु भवान्भणति.

6. A B C D E मम for अयं मे.
10. B विमृश्यतु , F विमर्शयतु.
19. A C D E पउिणदं, B पउिण्णदं.
16. D भणादी, F भणदि.