पुटमेतत् सुपुष्टितम्
१५
॥ मालविकाशिभित्रम् ।
- देवी । 1जइ मं पुछ्छसि एदाणं विवादो एव्व ण मे रुच्चइ ।
- गण° । न मां देवी समानविद्यतः परिभवनीयमनुमन्तुमर्हति ।
- विदूषकः ।2देवि देख्खामो उरभ्भसंवादं । किं मुहा वेअणदाणेण ।
- देवी ।3 णं कलहप्पिओसि ।
- विदूषकः ।4 मा चण्डि । अण्णोण्णकलहिदाणं मत्तहथ्थीणं
- एकतरस्सिं अणिज्जिदे कुदो उवसमो ।
- राजा । ननु स्वाङ्गसौष्ठवाभिनयमुभयोर्दृष्टवती भवती ।
- परि० । अथ किम् ।
- राजा । तदिदानीमतः किमाभ्यां प्रत्याययितव्यम् ।
- परि० । एतदेव वक्तुकामास्मि ।
- शिष्टा क्रिया कस्यचिदात्मसंस्था
- संक्रान्तिरन्यस्य विशेषयुक्ता ।
- यस्योभयं साधु स शिक्षकाणां
- धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥
- १. यदि मां पृच्छसि एतयोर्विवाद एव न मे रोचते ।
- २. देवि पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ।
- ३. ननु कलह प्रियोसि ।
- ४. मा चण्डि । अन्योन्यकलहितयोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः।
|
|