पुटमेतत् सुपुष्टितम्
८५
॥ मालविकाग्निमित्रम् ॥
- विदूषकः । १मा दाव। अत्तहोदीए दंसणमेत्तएण अत्तभवं
- पणिपादलङ्घणं विसुमरिदो । तुमं उण अज्जवि पसादं
- ण गेण्हेसि ।
- इरावती । २कुविदावि दाणिं अहं किं करिस्सं।
- राजा । अस्थाने कोप इत्यनुपपन्नं त्वयि । तथा हि ।
- कदा मुखं वरतनु कारणादृते
- तवागतं क्षणमपि कोपपात्रताम् ।
- अपर्वणि ग्रहकलुषेन्दुमण्डला
- विभावरी कथय कथं भविष्यति ॥ १८ ॥
- इरावती । ३अठ्ठाणेत्ति सुठ्ठु भणिदं अज्जउनत्तेण । अण्णसं- 10
- क्कन्तेसु अम्हाणं भाअहेएसु जइ उण कुप्पिस्सं तदो हस्सा
- भविस्सं ।
- राजा । त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानं न पश्यामि । कुतः ।
- नार्हति कृतापराधोप्युत्सवदिवसेषु परिजनो बन्धम् । 15
- इति मोचिते मयैते प्रणिपतितुं मामुपगते च ॥१६॥
- १. मा तावत् । अत्रभवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्तृतः । त्वं पुनरद्यापि
- प्रसादं न गृह्णासि ।
- २. कुपितापीदानीमहं किं करिष्ये ।
- ३. अस्थान इति सुष्टु भणितमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कु-
- प्ये तनो हास्या भविष्यामि ।
|
|