पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
॥ मालविकाग्निमित्रम् ॥
विदूषकः । १मा दाव। अत्तहोदीए दंसणमेत्तएण अत्तभवं
पणिपादलङ्घणं विसुमरिदो । तुमं उण अज्जवि पसादं
ण गेण्हेसि ।
इरावती । २कुविदावि दाणिं अहं किं करिस्सं।
राजा । अस्थाने कोप इत्यनुपपन्नं त्वयि । तथा हि ।
कदा मुखं वरतनु कारणादृते
तवागतं क्षणमपि कोपपात्रताम् ।
अपर्वणि ग्रहकलुषेन्दुमण्डला
विभावरी कथय कथं भविष्यति ॥ १८ ॥
इरावती । ३अठ्ठाणेत्ति सुठ्ठु भणिदं अज्जउनत्तेण । अण्णसं- 10
क्कन्तेसु अम्हाणं भाअहेएसु जइ उण कुप्पिस्सं तदो हस्सा
भविस्सं ।
राजा । त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानं न पश्यामि । कुतः ।
नार्हति कृतापराधोप्युत्सवदिवसेषु परिजनो बन्धम् । 15
इति मोचिते मयैते प्रणिपतितुं मामुपगते च ॥१६॥

१. मा तावत् । अत्रभवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्तृतः । त्वं पुनरद्यापि
प्रसादं न गृह्णासि ।
२. कुपितापीदानीमहं किं करिष्ये ।
३. अस्थान इति सुष्टु भणितमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कु-
प्ये तनो हास्या भविष्यामि ।

2. A B C D E omit भन्ज़बि. "
3. A गण्हसि; c गेण्हसि
4. A B C D E omit « °वि दाणैि."
10. D E F अ-अ°
11. A B C F भाअहेयेसु.-C जई
13. B कलयसि for “ कल्पयसि .”
14. E omits«न" altogether.-our
MSS. गृह्णामि for “पश्यामि.”
We with G.
15. Our MSS. दण्डम्. we with G.