४१०
मनुस्मृतिः। [ अध्यायः १०
तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः ।
वैगुण्याजन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ ६८ ॥
तावुभाविति ॥पारशवचण्डालो द्वावप्यनुपनेयाविति व्यवस्थिता शास्त्रमर्यादा।
पूर्वः पारशवः शूद्राजातत्वेन जातिवैगुण्यादनुपनेयः । प्रातिलोम्येन शूद्रेण ब्रा-
ह्मण्यां जातत्वादित्युत्तरत्वेनानुपनेयः ॥ ६८ ॥
सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा।
तथार्याजात आर्यायां सर्व संस्कारमर्हति ॥ ६९ ॥
सुबीजमिति ॥ यथा शोभनबीजं शोभनक्षेत्रे जातं समृद्धं भवत्येवं द्विजातेर्द्वि-
जातिस्त्रियां सवर्णायामानुलोम्येन च क्षत्रियावैश्ययोर्जातः सवर्णसंस्कारं क्षत्रिय-
वैश्यसंस्कारं च सर्वं श्रौतं स्मात चार्हति । नच पारशवचण्डालाविति पूर्वो-
कदाार्थमेतत् ॥ ६९ ॥
दर्शनान्तराण्युक्तस्यैवार्थस्थैर्यार्थमाह-
वीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः।
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ ७॥
बीजमिति ॥ केचित्पण्डिता बीजं स्तुवन्ति, हरिण्याद्युत्पन्नऋष्यशृङ्गादेब्रह्ममु-
नित्वदर्शनात् । अपरे पुनः क्षेत्रं स्तुवन्ति, क्षेत्रस्वामिपुत्रत्वदर्शनात् । अन्ये पुन-
बीजक्षेत्रे उभे अपि स्तुवन्ति, सुबीजस्य सुक्षेत्रे समृद्धिदर्शनात् । एतस्मिन्मतभेदे
वक्ष्यमाणेयं व्यवस्था ज्ञेया ॥ ७० ॥
अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति ।
अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ ७१ ॥
अक्षेत्र इति ॥ ऊपरप्रदेशे बीजमुप्तं फलमदददन्तराल एव विनश्यति । शो-
भनमपि क्षेत्रं बीजरहितं स्थण्डिलमेव केवलं स्यान्न तु सस्यमुत्पद्यते । तस्मात्प्र-
त्येकनिन्दया 'सुबीजं चैव सुक्षेत्रम्' इति प्रागुक्तमुभयप्राधान्यमेवाभिहितम् ॥१॥
इदानी बीजप्राधान्यपक्षे दृष्टान्तमाह-
यसादीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् ।
पूजिताश्च प्रशस्ताश्च तस्माद्वीजं प्रशस्यते ॥ ७२ ॥
यस्मादिति ॥ यसादीजमाहात्म्येन तिर्यग्जातिहरिण्यादिजाता अपि ऋष्यश-
ङ्गादयो मुनित्वं प्राप्ताः, पूजिताश्चाभिवाद्यत्वादिना, वेदज्ञानादिना प्रशस्ता वाचा
संस्तुतास्तस्माद्धीजं प्रस्तूयते । एतच्च बीजप्राधान्यनिगमनं बीजयोन्योर्मध्ये
बीजोत्कृष्टा जातिः प्रधानमित्येवंपरतया बोद्धव्यम् ॥ ७२ ॥
अनार्यमार्यकर्माणमार्य चानार्यकर्मिणम् ।
संप्रधार्याब्रवीद्धाता न समौ नासमाविति ॥ ७३ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
