पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः १०] मन्वर्थमुक्तावलीसंवलिता। इदानीं 'सर्ववर्णेषु तुल्यासु' इत्युक्तलक्षणव्यतिरेकेणापि ब्राह्मण्यादि दर्शयितुमाह- शूद्रायां ब्राह्मणाजातः श्रेयसा चेत्मजायते । अश्रेयान् श्रेयसी जातिं गच्छत्यासप्तमायुगात् ॥ ६४ ॥ शूद्रायामिति ॥ शूद्रायां ब्राह्मणाजातः पारशवाख्यो वर्णः प्रजायत इति साम- ास्त्रीरूपः प: स्यात् । सा यदि स्त्री ब्राह्मणेनोढा सती प्रसूयते सा दुहितरमेव जन- यति । साप्यन्येन ब्राह्मणेनोढा सती दुहितरमेव जनयति । साप्येवमेव सप्तमे युगे जन्मनि स पारशवाख्यो वर्णो बीजप्राधान्याद्राह्मण्यं प्राप्नोति । आसप्तमाधुगा- दित्यभिधानात्सप्तमे जन्मनि ब्राह्मणः संपद्यत इत्यर्थः ॥ ६४ ॥ शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् । क्षत्रियाजातमेवं तु विद्याद्वैश्यात्तथैव च ॥६५॥ शूद्र इति ॥एवं पूर्वश्लोकोक्तरीत्या शूद्रो ब्राह्मणतां याति ब्राह्मणश्च शूद्रतामेति। ब्राह्मणोऽत्र ब्राह्मणाच्छूद्रायामुत्पन्नः पारशवो ज्ञेयः। स यदि पुमान्केवलशूद्रोद्वा- हेन तस्यां पुमांसमेव जनयति, सोऽपि केवलशूद्रोद्वाहेनापरं पुमांसमेव जनयति, सोऽप्येवं, तदा स ब्राह्मणः सप्तमं जन्म प्राप्तः केवलशूद्वतां बीजनिकर्षात्क्रमण प्राप्नोति । एवं क्षत्रियाद्वैश्याच्च शूद्रायां जातस्योत्कर्षापकों जानीयात् । किंतु जातेरपकर्षात् 'जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा' इति याज्ञवल्क्यदर्श- नाच्च क्षत्रियाजातस्य पञ्चमे जन्मन्युत्कर्षापकर्षों बोद्धव्यौ । वैश्याजातस्य ततो- ऽप्युत्कर्षात् । याज्ञवल्क्येनापि वाशब्देन पक्षान्तरस्य संगृहीतत्वाद्वृद्धव्याख्यानुरो- धाच्च तृतीयजन्मन्युत्कर्षापकर्षों ज्ञेयौ। अनेनैव न्यायेन ब्राह्मणेन वैश्यायां जातस्य पञ्चमे जन्मन्युत्कर्षापकर्षों, क्षत्रियायां जातस्य तृतीये, क्षत्रियेण वैश्यायां जातस्य तृतीय एव बोद्धव्यौ ॥ ६५॥ अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया । ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं केति चेद्भवेत् ॥ ६६ ॥ अनार्यायामिति ॥ एकः शूद्रायां यदृच्छया अनूढायामपि ब्राह्मणादुत्पन्नो- न्यश्च ब्राह्मण्यां शूद्राजातः द्वयोर्मध्ये कचोत्पन्नस्य श्रेयस्वमिति चेत्संशयः स्या- संशयबीजं च यथा बीजोत्कर्षात् । ब्राह्मणाच्छूद्रायां जातः साधुः शूद्रः, एवं क्षेत्रोत्कर्षाद्राह्मण्यामपि शूद्रेण जातः किमिति साधुः शूद्रो न स्यात् ॥ ६६ ॥ तत्र निर्णयमाह- जातो नार्यामनार्यायामार्यादार्यो भवेद्गुणैः । जातोऽप्यनार्यादा यामनार्य इति निश्चयः ॥ ६७ ॥ जात इति ॥ शूद्रायां स्त्रियां ब्राह्मणाज्जातः स्मृत्युक्तैः पाकयज्ञादिभिर्गुणैरनुष्टी- यमानैर्युक्तः प्रशस्यो भवति । शूद्रेण पुनर्ब्राह्मण्यां जातः प्रतिलोमत उत्पन्नतया शूद्रधर्मेप्वप्यनधिकारादप्रशस्य इति निश्चयः । न्यायप्राप्तोऽप्यर्थो वचनप्रामाण्या दन्न बोध्यते ॥ ६७ ॥ ३५ ।