पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १०] मन्वर्थमुक्तावलीसंवलिता। 7 अनार्यमिति ॥ शूद्रं द्विजातिकर्मकारिणं द्विजातिं च शूद्रकर्मकारिणं ब्रह्मा विचार्य 'न समौ नासमौ' इत्यवोचत् । यतः शूद्रो द्विजातिकर्मापि न द्विजाति- समः, तस्यानधिकारिणो द्विजातिकर्माचरणेऽपि तत्साम्याभावात् । एवं शूद्रक- मापि द्विजातिर्न शूदसमः, निषिद्धसेवनेन जात्युत्कर्षस्यानपायात् । नाप्यसमा निषिद्धाचरणेनोभयोः साम्यात् । तस्माद्यद्यस्य विगर्हितं तत्तेन न कर्तव्यमिति संकरपर्यन्तवर्णधर्मोपदेशः ॥ ७३ ॥ इदानी ब्राह्मणानामापद्धर्म प्रतिपादयिष्यन्निदमाह- ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः । ते सम्यगुपजीवेयुः षटुर्माणि यथाक्रमम् ॥ ७४ ॥ ब्राह्मणा इति ॥ ये ब्राह्मणा ब्रह्मप्राप्तिकारणब्रह्मध्याननिष्ठाः स्वकर्मानुष्ठाननिर- ताश्च ते षट् कर्माणि वक्ष्यमाणान्यध्यापनादीनि क्रमेण सम्यगनुतिष्ठेयुः ॥ ७४ ॥ तानि कर्माण्याह- अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षटुर्माण्यग्रजन्मनः ॥ ७५ ॥ अध्यापनमिति ॥ अध्यापनाध्ययने साङ्गस्य वेदस्य, तथा यजनयाजने, दानप्र- तिग्रहौ चेत्येतानि षट् कर्माणि ब्राह्मणस्य वेदितव्यानि ॥ ७५ ॥ पण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ ७६ ॥ षण्णामिति ॥ अस्य ब्राह्मणस्यैषामध्यापनादीनां षण्णां कर्मणां मध्याद्याजनम- ध्यापनं विशुद्धप्रतिग्रहः 'द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजः' इति वचननि- देशाविजातेः प्रतिग्रह इत्येतानि त्रीणि कर्माणि जीवनार्थानि ज्ञेयानि ॥ ७६ ॥ त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति । अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥ ७७ ॥ त्रयो धर्मा इति ॥ ब्राह्मणापेक्षया क्षत्रियस्याध्यापनयाजनप्रतिग्रहाख्यानि वृत्त्यर्थानि त्रीणि कर्माणि निवर्तन्ते । अध्ययनयागदानानि तु तस्यापि भवन्ति ७७ वैश्यं प्रति तथैवैते निवर्तेरनिति स्थितिः । न तौ प्रति हि तान्धर्मान्मनुराह प्रजापतिः ॥ ७८ ॥ वैश्यं प्रतीति ॥ यथा क्षत्रियस्याध्यापनयाजनप्रतिग्रहा निवर्तन्ते तथा वैश्यस्या- पीति शास्त्रव्यवस्था । यस्मान्मनुः प्रजापतिस्तौ क्षत्रियवैश्यौ प्रति तानि वृत्त्यर्थानि कर्माणि कर्तव्यत्वेन नोक्तवान् । एवं वैश्यस्याप्यध्ययनयागदानानि भवन्ति॥७॥ शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विशः। आजीवनार्थ धर्मस्तु दानमध्ययनं यजिः॥ ७९ ॥ शस्त्रास्त्रेति ॥ शस्त्रं खड्गादि अस्त्रं बाणादि एतद्धारणं प्रजारक्षणाय क्षत्रियस्य