अध्यायः १०]]
मन्वर्थमुक्तावलीसंवलिता।
!
शुभः।
धर्मेणेति ॥ धर्मेण विक्रयादिनोक्तप्रकारेण धनवृद्धौ प्रकृष्टं यत्नं कुर्यात् । हि-
रण्यादिदानमपेक्ष्यान्नमेव प्राणिभ्यो विशेषेण दद्यात् ॥ ३३३ ॥
विप्राणां वेदविदुषां गृहस्थानां यशखिनाम् ।
शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ॥३३४ ॥
विप्राणामिति ॥ शूद्रस्य पुनर्वेदविदां गृहस्थानां स्वधर्मानुष्ठानेन यशोयुक्तानां
या परिचर्या सैव प्रकृष्टस्वर्गादिश्रेयोहेतुर्धर्मः ॥ ३३४ ॥
शुचिरुत्कृष्टशुश्रूधुर्मुदुवागनहंकृतः ।
ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥ ३३५ ॥
शुचिरिति । बाह्याभ्यन्तरशौचोपेतः, स्वजात्यपेक्षयोत्कृष्टद्विजातिपरिचरणशीलः
अपरुषभाषी, निरहंकारः, प्राधान्येन ब्राह्मणाश्रयस्तदभावे क्षत्रियवैश्याश्रयोऽपि
स्वजातित उत्कृष्टां जातिं प्राप्नोति ॥ ३३५ ॥
एषोऽनापदि वर्णानामुक्तः कर्मविधिः
आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥ ३३६ ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां नवमोऽध्यायः ॥ ९॥
एष इति ॥ एष वर्णानामनापदि चतुर्णामपि कर्मविधिर्धर्म उक्तः, आपद्यपि
यस्तेषां धर्मः संकीर्णश्चेदं च क्रमेण शृणुत ॥ ३३६ ॥
इति श्रीकुलूकमविरचितायां मन्वर्थमुक्कावल्यां नवमोऽध्यायः॥ ९ ॥
अथ दशमोऽध्यायः।
अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः।
अब्रूयाद्राह्मणस्त्वेषां नेतराविति निश्चयः॥१॥
अधीयीरनिति ॥ वैश्यशूद्रधर्मानन्तरं 'संकीर्णानां च संभवम्' इति प्रति-
ज्ञातत्वात्तस्मिन्वाच्ये वर्णेभ्य एव संकीर्णानामुत्पत्तेः वर्णानुवादार्थ त्रैवर्णिकस्य
प्रधानधर्ममध्ययनं ब्राह्मणस्य चाध्यापनमनुवदति । ब्राह्मणादयस्त्रयो वर्णा अध्यय-
नानुभूतस्वकर्मानुष्ठातारो वेदं पठेयुः । एषां पुनर्मध्ये ब्राह्मण एवाध्यापनं कुर्यान्न
क्षत्रियवैश्यावित्ययं निश्चयः । प्रब्रूयाद्राह्मणस्त्वेषामित्यनेनैव क्षत्रियवैश्ययो-
रध्यापननिषेधसिद्धौ नेतराविति पुनर्निषेधवचनं प्रायश्चित्तगौरवार्थम् ॥ १ ॥
सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि ।
प्रबेयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥२॥
किंच सर्वेषामिति ॥ सर्वेषां वर्णानां जीवनोपायं यथाशास्त्रं ब्राह्मणो जानी-
यात्तेभ्यश्वोपदिशेत्स्वयं च यथोक्तवन्नियममनुतिष्ठेत् ॥ २ ॥
मनु० ३४
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
