पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ मनुस्मृतिः। [ अध्यायः १० अन्नानुवादः- वैशेष्यात्प्रकृतिश्रृष्ट्यान्नियमस्य च धारणात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥३॥ वैशेष्यादिति॥जात्युत्कर्षात्, प्रकृतिः कारणं हिरण्यगर्भोत्तमाङ्गरूपकारणोत्कर्षात्, नियम्यतेऽनेनेति नियमो वेदस्तस्याध्ययनाध्यापनव्याख्यानादियुक्तसातिशयवेदधा- रणात् । अतएव ‘ब्रह्मणश्चैव धारणात्' इति सातिशयवेदधारणेनैव ब्राह्मणोत्कर्ष उक्तः । गोविन्दराजस्तु स्नातकग्रतानां धारणादिति व्याख्यातवान् । तन्न । क्षत्रिया- दिसाधारण्या पातु । संस्कारस्योपनयनाख्यस्य क्षत्रियाद्यपेक्षया प्राधान्यविधाने विशे- षाद्वर्णानामध्यापरवृत्युपदेशयोाह्मण एवेश्वरः ॥३॥ ब्राह्मणः क्षेत्रियो वैश्यस्त्रयो वर्णा द्विजातयः। चतुर्थ एकजातिस्तु द्रो नास्ति तु पञ्चमः॥४॥ ब्राह्मण इति ॥ ब्राह्मणादयस्त्रयो वर्णा बिचाः, तेपामुपनयनविधानात् । शूद्रः पुनश्चतुर्थो वर्ण एकजातिः, उपनयनाभावात् । पञ्च वा नास्तिा संकीर्णजा- नीनां त्वश्वतरवन्मातापितृजातिव्यतिरिक्तजात्यन्तरत्वान्न वर्णत्वम् । अयं च जात्य- न्तरोपदेशः शास्त्रे संव्यवहरणार्थः ॥ ४ ॥ सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ॥५॥ सर्ववर्णेष्विति ॥ ब्राह्मणादिषु वर्णेषु चतुर्वपि, समानजातीयासु यथाशास्त्रं परिणीतावक्षतरोनिष्वानुलोम्येन ब्राह्मणेन ब्राह्मण्यां क्षत्रियेण क्षत्रियायामित्य- नेनानुक्रमेण ये जातास्ते मातापित्रोर्जात्या युक्तास्तजातीया एव ज्ञातव्याः। आनु- लोम्यग्रहणं चात्र मन्दोपयुक्तमुत्तरश्लोक उपयोक्ष्यते । गवाश्वादिवदवयवसंनिवेशस्य ब्राह्मणजात्यभिव्यञ्जकाभावादेतब्राह्मणादिलक्षणमुक्तम् । अत्र च पत्नीग्रहणादन्य- पत्नीजनितानां न ब्राह्मणादिजातित्वम् । तथाच देवल:--'द्वितीयेन तु यः पित्रा सवर्णायां प्रजायते । अववाट इति ख्यातः शूद्रधर्मा स जातितः ॥ व्रतहीना न संस्कार्याः स्वतन्त्रास्वपि ये सुताः । उत्पादिताः सवर्णेन व्रात्या इव बहिष्कृताः॥' व्यासः-'ये तु जाताः समानासु संस्कार्याः स्युरतोऽन्यथा।' याज्ञवल्क्योऽपि- 'सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः' इत्यभिधाय 'विन्नास्वेष विधिः स्मृतः' इति ब्रुवाणः प्रत्युत्पादितस्यैव ब्राह्मणादिजातित्वं निश्चिकाय ॥ ५ ॥ स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ ६॥ स्त्रीष्विति ॥ आनुलोम्येनाव्यवहितवर्णजातीयासु भार्यासु द्विजातिभिर्य उत्पा- दिताः पुत्राः, यथा ब्राह्मणेन क्षत्रियायां, क्षत्रियेण वैश्यायां वैश्येन शूद्रायां ता- मातुहीनजातीयत्वदोपाद्गर्हितान्पितृसदृशान्न तु पितृसजातीयान्मन्वादय आहुः । पितृसदशग्रहणान्मातृजातेरुत्कृष्टाः पितृजातितो निकृष्टा ज्ञेयाः। एतेपांच नामानि