पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः९ प्रजापतिरिति ॥ यस्साद्ब्रह्मा पशून्सृष्ट्वा रक्षणार्थं वैश्याय दत्तवानतो वैश्येन रक्षणीयाः पशव इति पूर्वानुवादः । प्रजाश्च सर्वाः सृष्ट्वा ब्राह्मणाय राज्ञे च रक्षणार्थ दत्तवानिति प्रसङ्गादेतदुक्तम् ॥ ३२७ ॥ नच वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥ ३२८ ॥ न चेति ॥ पशुरक्षणं न करोमीति वैश्येनेच्छा न कार्या । अतः कृष्यादिवृत्ति- संभवेऽपि वैश्येन पशुरक्षणमवश्यं करणीयम् । वैश्ये च पशुरक्षणं कुर्वत्यन्यः पशुरक्षणं न कारयितव्यः ॥ ३२८ ॥ मणिमुक्ताप्रबालानां लोहानां तान्तवस्य च । गन्धानां च रसानां च विद्यादबलावलम् ॥ ३२९ ॥ किंच । मणीति ॥ मणिमुक्ताविद्रुमलोहवस्त्रागां, गन्धानां कर्पूरादीनां, रसानां लवणादीनामुत्तममध्यमानां देशकालापेक्षया मूल्योत्कर्षापकर्ष वैश्यो जानी- यात् ॥ ३२९॥ बीजानामुप्तिविच स्यात्क्षेत्रदोषगुणस्य च । मानयोगं च जानीयात्तुलायोगांश्च सर्वशः ॥ ३३० ॥ बीजानामिति ॥ बीजानां सर्वेषां वपन विधिज्ञः स्यात् । इदं बीजमस्मिन्काले तत्र संहतं चोप्त प्ररोहत्यस्मिन्नेत्येवं तथेदमूवरमिदं सस्यप्रदमित्यादि क्षेत्रदोषगुण- ज्ञश्च स्यात् । मानोपायांश्च प्रस्थद्रोणादीन्तुलोपायांश्च सर्वान् तत्त्वतो जानीयात् । यथान्यो न वञ्चयति ॥ ३३० ॥ सारासारं च भाण्डानां देशानां च गुणागणान् । लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥३३१॥ सारासारमिति ॥ इदमुत्कृष्टमेतदपकृष्टमित्येकजातीनामपि द्रव्याणां विशेष जानीयात्तथा देशानां प्राक्पश्चिमादीनां क्व किमल्पमूल्यं किं बहुमूल्यं चेत्यादि देशगुणदोषौ बुद्ध्येत् । विक्रेयद्रव्याणां चेयता कालेन इयानपचय उपचयो वेति विद्यात् । तथास्मिन् देशे कालेऽनेन च तृणोदकयवादिना पशवो वर्धन्तेऽनेन क्षीयन्त इत्येतदपि जानीयात् ॥ ३३१ ॥ भृत्यानां च भृति विद्याद्भाषाश्च विविधा नृणाम् । द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥ ३३२ ॥ भृत्यानामिति ॥ गोपालमहीपालानामितीदमस्य देयमिति देशकालकर्मानुरूपं वेतनं जानीयात् । गौडदाक्षिणात्यादीनां च मनुष्याणां नानाप्रकारा भाषा विक्रया- द्यर्थ विद्यात्तथेदं द्रव्यमेवं स्थाप्यतेऽनेन च संयुक्तं चिरं तिष्ठतीति बुद्ध्येत, तथेदं द्रव्यमस्सिन्देशे काले चेयता विक्रीयत इत्येतदपि जानीयात् ॥ ३३२ ॥ धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नमुत्तमम् । दद्याच सर्वभूतानामन्नमेव प्रयत्नतः॥ ३३३ ॥