पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १०]] मन्वर्थमुक्तावलीसंवलिता। ! शुभः। धर्मेणेति ॥ धर्मेण विक्रयादिनोक्तप्रकारेण धनवृद्धौ प्रकृष्टं यत्नं कुर्यात् । हि- रण्यादिदानमपेक्ष्यान्नमेव प्राणिभ्यो विशेषेण दद्यात् ॥ ३३३ ॥ विप्राणां वेदविदुषां गृहस्थानां यशखिनाम् । शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ॥३३४ ॥ विप्राणामिति ॥ शूद्रस्य पुनर्वेदविदां गृहस्थानां स्वधर्मानुष्ठानेन यशोयुक्तानां या परिचर्या सैव प्रकृष्टस्वर्गादिश्रेयोहेतुर्धर्मः ॥ ३३४ ॥ शुचिरुत्कृष्टशुश्रूधुर्मुदुवागनहंकृतः । ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥ ३३५ ॥ शुचिरिति । बाह्याभ्यन्तरशौचोपेतः, स्वजात्यपेक्षयोत्कृष्टद्विजातिपरिचरणशीलः अपरुषभाषी, निरहंकारः, प्राधान्येन ब्राह्मणाश्रयस्तदभावे क्षत्रियवैश्याश्रयोऽपि स्वजातित उत्कृष्टां जातिं प्राप्नोति ॥ ३३५ ॥ एषोऽनापदि वर्णानामुक्तः कर्मविधिः आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥ ३३६ ॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां नवमोऽध्यायः ॥ ९॥ एष इति ॥ एष वर्णानामनापदि चतुर्णामपि कर्मविधिर्धर्म उक्तः, आपद्यपि यस्तेषां धर्मः संकीर्णश्चेदं च क्रमेण शृणुत ॥ ३३६ ॥ इति श्रीकुलूकमविरचितायां मन्वर्थमुक्कावल्यां नवमोऽध्यायः॥ ९ ॥ अथ दशमोऽध्यायः। अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः। अब्रूयाद्राह्मणस्त्वेषां नेतराविति निश्चयः॥१॥ अधीयीरनिति ॥ वैश्यशूद्रधर्मानन्तरं 'संकीर्णानां च संभवम्' इति प्रति- ज्ञातत्वात्तस्मिन्वाच्ये वर्णेभ्य एव संकीर्णानामुत्पत्तेः वर्णानुवादार्थ त्रैवर्णिकस्य प्रधानधर्ममध्ययनं ब्राह्मणस्य चाध्यापनमनुवदति । ब्राह्मणादयस्त्रयो वर्णा अध्यय- नानुभूतस्वकर्मानुष्ठातारो वेदं पठेयुः । एषां पुनर्मध्ये ब्राह्मण एवाध्यापनं कुर्यान्न क्षत्रियवैश्यावित्ययं निश्चयः । प्रब्रूयाद्राह्मणस्त्वेषामित्यनेनैव क्षत्रियवैश्ययो- रध्यापननिषेधसिद्धौ नेतराविति पुनर्निषेधवचनं प्रायश्चित्तगौरवार्थम् ॥ १ ॥ सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि । प्रबेयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥२॥ किंच सर्वेषामिति ॥ सर्वेषां वर्णानां जीवनोपायं यथाशास्त्रं ब्राह्मणो जानी- यात्तेभ्यश्वोपदिशेत्स्वयं च यथोक्तवन्नियममनुतिष्ठेत् ॥ २ ॥ मनु० ३४