पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


मनुस्मृतिः। [अध्यायः ५

कृत्वा मूत्रं पुरीष वा खान्याचान्त उपस्पृशेत् ।
वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥ १३८ ॥

कृत्वेति ॥ मूत्रपुरीषं कृत्वा कृतयथोक्तशौचस्विराचान्त इन्द्रियच्छिद्राणि शीर्षाग्यन्यानि च स्पृशेत् वेदाध्ययनं चिकीर्षन्, अन्नं वाश्नन् । यत्तु द्वितीयाध्याये 'अध्येप्यमाणस्त्वाचान्तो' 'निवेद्य गुरवेऽश्नीयादाचम्य' इत्युभयमुक्तं तद्ताङ्गवार्थ, इदं तु पुरुषार्थशौचायेत्यपुनरुक्तिः ॥ १३८ ॥ आचान्त इति यदुक्तं तत्र विशेषमाह-

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
शारीरं शौचमिच्छन्हि स्त्री शूद्रस्तु सकृत्सकृत् ॥ १३९ ॥

त्रिराचामेदिति ॥ देहस्य शुद्धिमिच्छन्प्रथमं वारत्रयमपो भक्षयेत् । ततो द्विर्मुखं परिमृज्यात् । स्त्री शूद्रश्चैकवारमाचमनार्थमुदकं भक्षयेत् ॥ १३९ ॥

शुद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।
वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥ १४०॥

शूद्राणामिति ॥ शूद्राणां कार्यमिति 'कृत्यानां कर्तरि वा' इति कर्तरि षष्टी । अथाशास्त्रव्यवहारिभिर्द्विजशुश्रूपकैः शूद्वैर्मासि मासि मुण्डनं कार्य, वैश्यवच्च मृतसूतकादौ शौचकल्पोऽनुष्टातव्यः, द्विजोच्छिष्टं च भोजनं । भुज्यत इति भोजनं कार्यमिति ॥ १४० ॥ 'निष्टीव्योक्त्वानृतानि च' इति निष्टीवतामाचमनविधानाद्विदुपामपि मुखानिःसरणं निष्टीवनमेवेति प्रसक्तौ शुद्ध्यर्थमपवादमाह-

नोच्छिष्टं कुर्वते मुख्या विग्रुपोऽङ्गे पतन्ति याः।
न श्मश्रूणि गतान्यायं न दन्तान्तरधिष्ठितम् ॥ १४१ ॥

नोच्छिष्टमिति ॥ मुखभवा विग्रुषो या अङ्गे निपतन्ति ता उच्छिष्टं न कुर्वन्ति। तथा श्मश्रुलोमानि मुखप्रविष्टानि नोच्छिष्टतां जनयन्ति । दन्तावकाशस्थितं चान्नावयवादि नोच्छिष्टं कुरुते । अत्र गौतमीये विशेषः-'दन्ताश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्षणात्प्राक् च्युतेरिति । एके च्युतेप्वाहारवद्विद्यान्निगिरनेव तच्छुचिः' ॥ १४१ ॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ॥ १४२॥

स्पृशन्तीति ॥ अन्येषामाचमनार्थ जलं ददतां ये बिन्दवः पादौ स्पृशन्ति न जङ्घादि विशुद्धभूमिष्टोदकैस्तुल्यास्तेन नाचमना) भवति । तदा तत्र च्यवनावस्थैरकृताचमनः शुद्धति द्रव्यं च शुध्यति ॥ १४२ ॥

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद्र्व्यमाचान्तः शुचितामियात् ॥ १४३ ॥