पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। २०७

उच्छिष्टेनेति ॥ व्यहस्तपदेन शरीरसंबन्धमानं द्रव्यस्य विवक्षितम् । आमाणिवन्धात्पाणिं प्रक्षाल्येति व्यहस्तस्याचमनासंभवात्स्कन्धादिस्थितव्यो यधुच्छिष्टेन संस्पृष्टो भवति तदा द्रव्यमनवस्थाप्यैव कृताचमनः शुद्ध्यति द्रव्यं च शुद्धं भवति ॥

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् ।
आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥१४४ ॥

वान्त इति ॥ कृतवमनः संजातविरेकः स्नात्वा घृतप्राशनं कुर्यात् । 'दश परेकान्विरिक्तः' इति गोविन्दराजः। यदि भुक्त्वा अनन्तरमेव वमति तदा वचमनमेव कुर्यान्न स्नानघृतप्राशने । मैथुनं च कृत्वा स्नायात् । इदं त्वृतुमप्रविषयम् ॥ १४४॥

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्टीव्योक्त्वानृतानि च ।
पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥१४५॥

सुरुवेति ॥ निद्राक्षुद्भोजनश्लेप्मनिरसनमृपाबादजलपानादिकृत्वाध्ययनं चिकीर्षुः चिरप्याचामेत् । यत्तु 'भुक्त्वा चोपस्पृशेत्सम्यक्' इति, तथा 'अध्येप्यमाणवाचान्तः' इति द्वितीयाध्यायोक्तं तद्रताङ्गत्वेन । इह तु भुक्त्वाचमन विधानं नृपार्थमध्ययनाङ्गतयाचमन विधानं गृहस्थादीनामपीति ॥ १४५ ॥

एष शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च ।
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ॥ १४६ ॥

एप शौचविधिरिति ॥ एष वर्णानां जननमरणादौ दशरात्रादिरशौचविधिः पनो द्रव्याणां तैजसादीनां चेलादीनां च जलादिना शुद्धिविधिर्युप्माकमुक्तः । नीं स्त्रीणामनुष्ठेयं धर्मं शृणुत ॥ १४६ ॥

बालया वा युवत्या वा वृद्धया वापि योषिता।
न स्वातन्त्र्येण कर्तव्यं किंचित्कार्यं गृहेष्वपि ॥ १४७ ॥

बालया वेति ॥ बाल्ये यौवने वार्धके च वर्तमानया किंचित्सूक्ष्ममपि कार्यं द्यननुमतं न स्वातन्त्र्येण कर्तव्यमिति ॥ १४७

बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ।
पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम् ॥ १४८ ॥

बाल्ये पितुरिति ॥ किंतु बाल्ये पितुर्वशे तिष्ठेत् । यौवने भर्तुः । भर्तरि मृते णां । तदभावे 'तत्सपिण्डेपु चासत्सु पितृपक्षः प्रभुः स्त्रियः । पक्षद्वयावसाने भजा भर्ता स्त्रिया मतः ॥' इति नारदवचनाज्ज्ञातिराजादीनामायत्ता स्यात्कदा । स्वतन्त्रा भवेत् ॥ १४८ ॥

पित्रा भर्त्रा सुतैर्वापि नेच्छेदिरहमात्मनः ।
एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥ १४९ ॥