पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०८ मनुस्मृतिः। [ अध्यायः ५

पित्रा भर्त्रेति ॥ पित्रा पत्या पुत्रैर्वा नात्मनो विरहं कुर्यात् । यस्मादेषां वियोगेन स्त्री बन्धकीभावं गतापि पतिपितृकुले निन्दिते करोति ॥ १४९ ॥

सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥१५० ॥

सदा प्रहृष्टयेति ॥ सर्वदा भर्तरि विरुद्धेऽपि प्रसन्नवदनया गृहकर्मणि चतुरया सुशोधितकुण्डकटाहादिगृहभाण्डया व्यये चाबहुप्रदया स्त्रिया भवितव्यम्॥१५०॥

यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ १५१ ॥

यस्मै दद्यादिति ॥ यसै पिता एनां दद्यापितुरनुमत्या भ्राता वा तं जीवन्तं परिचरेन्मृतं च नातिकामेत् व्यभिचारेण तदीयश्राद्धतर्पणादिविरहितया पारलौकिककृत्यखण्डनेन च ॥ १५१ ॥

मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः।
प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम् ॥ १५२ ॥

मङ्गलार्थमिति ॥ यदासां स्वस्त्ययनशान्त्यनुमन्त्रवचनादिरूपं, यश्चासां प्रजापतियागः प्रजापत्युद्वेशेनाज्यहोमात्मको विवाहेषु क्रियते तन्मङ्गलार्थमभीष्टसंपत्त्यर्थं कर्म । यत्पुनः प्रथमं प्रदानं वाग्दानात्मकं तदेव भर्तुः स्वाम्यजनकम् । ततश्च वाग्दानादारभ्य स्त्री भर्तृपरतत्रा । तस्मात्तं श्रयेतेति पूर्वोक्तशेषः । यत्तु नवमे वक्ष्यते 'तेषां निष्टा तु विज्ञेया विद्वद्भिः सप्तमे पदे' इति तद्भार्यात्वसंस्कारार्थमित्यविरोधः ॥ १५२ ॥

अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः।
सुखस्य नित्यं दातेह परलोके च योषितः॥१५३ ।।

अनृताविति ॥ यतः मन्त्रसंस्कारो विवाहस्तत्कर्ता भर्ता 'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इति गोतमवचनाहतुकाले अन्यदा च नित्यमिह लोके च सुखस्य दाता तदाराधनेन च स्वर्गादिप्राप्तेः परलोकेऽपि सुखस्य दातेति ॥३५३॥

विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः।
उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ १५४ ॥

तस्माद्विशील इति ॥ सदाचारशून्यः स्यन्तरानुरक्तो वा विद्यादिगुणहीनो वा तथापि साध्व्या स्त्रिया देववत्पतिराराधनीयः ॥ १५४ ॥

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ १५५ ॥

यस्माच नास्ति स्त्रीणामिति ॥ यथा भर्तुः कस्याश्चित्पल्या रजोयोगादिना