पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। २०५

विष्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ॥ १३४ ॥

विण्मूत्रेति ॥ विण्मूत्रमुत्सृज्यते येन स विण्मूत्रोत्सर्गः पायवादिस्तस्य शुध्यर्थं मृद्वारि ग्रहीतव्यमर्थवत्प्रयोजनवत् यावता गन्धलेपक्षयो भवति । तथा शारीराणां वसादिमलानां संबन्धिषु द्वादशस्वपि गन्धलेपक्षयाथै मृद्वारि ग्राह्यम् । तत्र स्मृत्यन्तरात्पूर्वपदके मृजलग्रहणम् । उत्तरषट्के जलमात्रग्रहणम् । तदाह बौधायनः-'आददीत मृदोऽपश्च पदसु पूर्वेषु शुद्धये । उत्तरेषु च पदस्वद्भिः केवलाभिविशुद्ध्यति ॥' ततश्च द्वादशस्वपीति मानवं मृद्वारिग्रहणवचनं व्यवस्थया मृद्वारिणोर्ग्रहणे सति न विरुध्यते । गोविन्दराजस्तु मनुबौधायनवचनसंदर्शनादुत्तरपदेऽपि विकल्पमाह सच व्यवस्थितो दैवपित्राद्यदृष्टकर्मप्रवृत्ते उत्तरेष्वपि मृदमादद्यान्नान्यदा ॥ १३४ ॥

वसा शुक्रममृङ्मजा मूत्रविट् घ्राणकर्णविट् ।
श्लेष्माशु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ १३५ ॥

वसेति ॥ वसा कायस्नेहः, शुक्रं रेतः, असृक् रक्तं, मजा शिरोमध्ये पिण्डितस्नेहः, दूषिका अक्षिमलः, स्वेदः श्रमादिना देहनिःसृतं जलं । वसादयो द्वादश नराणां दैहिका मला भवन्ति ॥ १३५ ॥

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ १३६ ॥

एका लिङ्ग इति ॥ मूत्रपुरीपोत्सर्गे सति शुद्धिमभीप्सता 'मृद्वार्यादेयमर्थवत्' इत्युक्तत्वाजलसहिता मृदेका लिङ्गे दातव्या, गुदे तिस्रो मृदः, तथैकस्मिन्करे वामे । 'शौचविदृक्षिणं हस्तं नाधःशौचे नियोजयेत् । तथैव वामहस्तेन नाभेरूज़ न शोधयेत् ॥' इति देवलवचनात्तस्यैवाधःशौचसाधनत्वात्तत्रैव दश मृदो दातव्यास्तत उभयोः करयोः सप्त दातव्याः । यदा तूक्तशौचेनापि गन्धलेपक्षयो न भवति तदा ‘यावदपैत्यमेध्यात्तात्' इति वचनादधिकसंख्यापि मृदातव्या । एतद्विषयाण्येव मुनीनामधिकमृत्संख्यावचनानि । मृत्परिमाणमाह दक्षःलिङ्गेऽपि मृत्समाख्याता विपर्वी पूर्यते यया। द्वितीया च तृतीया च तदर्धार्धा प्रकीर्तिता॥' इति । यदा तूक्तसंख्याया अल्पेनापि गन्धलेपक्षयो भवति तदा संख्यावाक्यारम्भसामर्थ्यात्संख्या पूरयितव्यैव ॥ १३६ ॥

एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् ॥ १३७ ॥

एतच्छौचमिति ॥ एका लिङ्ग इत्यादि यच्छौचमुक्तं तद्गृहस्थानामेव, ब्रह्मचारिणां द्विगुणं, वानप्रस्थानां त्रिगुणं, यतीनां पुनश्चतुर्गुणम् ॥ १३७ ॥

मनु० १८