पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ४ मन्वयमुक्तावलासवालता। कारुकत्वेऽपि गोबलीवर्दन्यायेन पृथनिर्देशः । निर्णेजकस्यान्नं बलं हन्ति । गणग- णिकयोरन्नं च कर्मान्तरार्जितेभ्यः स्वर्गादिलोकेभ्य आच्छिनत्ति ॥ २१९ ॥ पूयं चिकित्सकसान पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वाधुषिकसान्नं शस्त्रविक्रयिणो मलम् ॥ २२० ॥ पूयमिति ॥ चिकित्सकस्यान्नं पूयं पूयभक्षणसमदोषम् । एवं पुंश्चल्या अन्नमि- न्द्रियं शुक्रम् । वाधुपिकस्यान्नं पुरीषम् । लोहविक्रयिणोऽन्नं विष्टाव्यतिरिक्तश्ले- प्मादि । गोविन्दराजस्तु चिकित्सकान्नभक्षणेन तथाविधायां जातौ जायते यत्र पूयभुग्भवतीत्याह ॥ २२० ॥ य एतेऽन्ये त्वभोज्यानाः क्रमशः परिकीर्तिताः। तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ २२१ ॥ य एतेऽन्य इति ॥ प्रतिपदनिर्दिष्टेभ्यो येऽन्ये क्रमेणाभोज्याना अस्मिन्प्रकरणे पठितास्तेषां यदन्नं तत्त्वगस्थिरोमाणि, यास्तदीयास्त्वचः कीकसस्य रोम्णां च भुक्तानां यो दोषः स एव तदन्नस्यापि भुक्तस्य बोद्धव्यः ॥ २२ ॥ भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं व्यहम् । मत्या भुक्त्वाचरेत्कृच्छ्रे रेतोविण्मूत्रमेव च ॥ २२२ ॥ भुक्त्वेति ॥ एषां मध्येऽन्यतमसंबन्धानमज्ञानतो भुक्त्वा त्र्यहमुपवासः । ज्ञानतस्तु कृच्छ्रम्। एवं रेतोविण्मूत्रभोजनेऽपि। एतच्चान्यतमस्येति षष्टीनिर्देशान्म- त्तादिसंबन्धिनः परिग्रहदुष्टान्नस्यैव प्रायश्चित्तं न संसर्गदुष्टस्य केशकीटावपन्नादेः । नापि कालदुष्टस्य पर्युषितान्नादेः। नापि निमित्तदुष्टस्य घुष्टादेः। एकप्रकरणोपदेश- श्चैषां स्नातकत्वज्ञापनार्थम् । प्रायश्चित्तं चैतेप्वेकादशे वक्ष्यति । यदि तु सर्वेष्वेवं प्रायश्चित्तं स्यात्तदा भुक्त्वातोऽन्यतमस्यान्नं दुष्टमित्यभ्यधास्यत् नत्वन्यतमस्य तु भुक्त्वेति । तस्मादेकप्रकरणाद्यन्मेधातिथिरभ्यधात् । प्रायश्चित्तमिदं युक्तं शुक्तादौ तदसुंदरम् ॥' अप्रकरणे च प्रायश्चित्तस्याभिधानं लाघवार्थम् । तत्र क्रियमाणे मत्तादिग्रहणमपि कर्तव्यं स्यात् ॥ २२२ ॥ नाद्याच्छूद्रस्य पक्कान्नं विद्वानश्राद्धिनो द्विजः। आददीताममेवासादवृत्तावेकरात्रिकम् ॥ २२३ ॥ नाद्यादिति ॥ अविशेषेण शूद्वान्नं प्रतिषिद्धं तस्येदानी विशिष्टविषयतोच्यते । अश्राद्धिनः श्राद्धादिपञ्चयज्ञशून्यस्य शूद्रस्य शास्त्रविविजः पक्वान्नं न भुञ्जीत, किंत्वन्नान्तराभावे सत्येकरात्रनिर्वाहोचितमाममेवान्नमस्साद्गृह्णीयान्न तु पक्का- नम् ॥ २२३ ॥ श्रोत्रियस्य कदर्यस्य वदान्यस्य च वाधुषः । मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ २२४ ॥