पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२०६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१७२ मनुस्मृतिः। [ अध्यायः४ श्रोत्रियस्येति ॥ एकोऽधीतवेदः कृपणश्व, परो दाता वृद्धिजीवी च तयोरुभ- योरपि गुणदोषवत्त्वं विचार्य देवास्तुल्यमन्नमनयोरिति निरूपितवन्तः । उभयो- रपि गुणदोषसाम्यात् ॥ २२४ ॥ तान्प्रजापतिराहैत्य मा कृथ्वं विषमं समम् । श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ २२५ ॥ तानिति ॥ तान्देवानागत्य ब्रह्मा प्रोवाच विषममन्नं मा समं कुरुत । विषम- समीकरणमनुचितम् । कः पुनरनयोर्विशेष इत्यपेक्षायां स एवावोचत् । दान- शीलवाईषिकस्यापि श्रद्धयान्नं पवित्रं भवति । कृपणान्नं पुनरश्रद्धया हतं दूषितमधर्म प्रागुभयप्रतिषेधेऽपि श्रद्धादत्तविद्वद्वाईषिकान्नविशुद्धिबोधनपर- मिदम् ॥ २२५ ॥ अत एवाह- श्रद्धयेष्टं च पूर्त च नित्यं कुर्यादतन्द्रितः । श्रद्धाकृते वक्षये ते भवतः स्वागतैर्धनैः ॥ २२६ ॥ श्रद्धयेति ॥ इष्टमन्तर्वेदि यज्ञादिकर्म, पूर्तं ततोऽन्यत्पुष्करिणीकूपप्रपारामादि, तदेवमनलसः सन्नित्यं काम्यस्वर्गादिफलरहितं श्रद्धया कुर्यात् । यस्मात्ते इष्टापूर्ते न्यायार्जितधनेन श्रद्धया कृतेऽक्षये मोक्षफले भवतः ॥ २२६ ॥ दानधर्म निषेवेत नित्यमैष्टिकपौर्तिकम् । परितुष्टेन भावेन पात्रमासाद्य शक्तितः॥ २२७ ॥ दानधर्ममिति ॥ दानाख्यं धर्ममैष्टिकं पौर्तिकमन्तर्वेदिकं बहिर्वेदिकं च सर्वदा विद्यातपोयुक्तं ब्राह्मणमासाद्य परितुष्टान्तःकरणयुक्तः यथाशक्ति कुर्यात् ॥ २२७ ॥ यत्किचिदपि दातव्यं याचितेनानसूयया । उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ २२८ ॥ यत्किंचिदिति ॥ प्रार्थितेन परगुणामत्सरेणान्नमपि यथाशक्ति दातव्यम् । यस्मात्सर्वदा दानशीलस्य कदाचित्तादृशं पात्रमागमिष्यति तत्सर्वमान्नरकहेतो. र्मोचयिष्यति ॥ २२८ ॥ वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः। तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ २२९ ॥ वारिद इति ॥ जलदः क्षुत्पिपासाविगमात्तृप्ति, अन्नदोऽत्यन्तसुखं, तिलपद ईप्सितान्यपत्यादीनि, दीपदो विप्रवेश्मादौ निर्दोषं चक्षुः प्राप्नोति ॥ २२९ ॥ भूमिदो भूमिमाग्नोति दीर्घमायुर्हिरण्यदः। गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २३० ॥ भूमिद इति ॥ भूमिदो भूमेराधिपत्यं, सुवर्णदश्चिरजीवित्वं, गृहदः श्रेष्ठानि वेश्मानि, रुप्यदः सकलजननयनमनोहरं रूपं लभते ॥ २३० ॥