पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४ ]
१७१
मन्वयमुक्तावलासवालता।

कारुकत्वेऽपि गोबलीवर्दन्यायेन पृथङ्निर्देशः । निर्णेजकस्यान्नं बलं हन्ति । गणगणिकयोरन्नं च कर्मान्तरार्जितेभ्यः स्वर्गादिलोकेभ्य आच्छिनत्ति ॥ २१९ ॥

पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ।
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ २२० ॥

 पूयमिति ॥ चिकित्सकस्यान्नं पूयं पूयभक्षणसमदोषम् । एवं पुंश्चल्या अन्नमिन्द्रियं शुक्रम् । वार्धुषिकस्यान्नं पुरीषम् । लोहविक्रयिणोऽन्नं विष्ठाव्यतिरिक्तश्लेष्मादि । गोविन्दराजस्तु चिकित्सकान्नभक्षणेन तथाविधायां जातौ जायते यत्र पूयभुग्भवतीत्याह ॥ २२० ॥

य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः।
तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ २२१ ॥

 य एतेऽन्य इति ॥ प्रतिपदनिर्दिष्टेभ्यो येऽन्ये क्रमेणाभोज्यान्ना अस्मिन्प्रकरणे पठितास्तेषां यदन्नं तत्त्वगस्थिरोमाणि, यास्तदीयास्त्वचः कीकसस्य रोम्णां च भुक्तानां यो दोषः स एव तदन्नस्यापि भुक्तस्य बोद्धव्यः ॥ २२ ॥

भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वाचरेत्कृच्छ्रे रेतोविण्मूत्रमेव च ॥ २२२ ॥

 भुक्त्वेति ॥ एषां मध्येऽन्यतमसंबन्धान्नमज्ञानतो भुक्त्वा त्र्यहमुपवासः । ज्ञानतस्तु कृच्छ्रम्। एवं रेतोविण्मूत्रभोजनेऽपि। एतच्चान्यतमस्येति षष्ठीनिर्देशान्मत्तादिसंबन्धिनः परिग्रहदुष्टान्नस्यैव प्रायश्चित्तं न संसर्गदुष्टस्य केशकीटावपन्नादेः । नापि कालदुष्टस्य पर्युषितान्नादेः। नापि निमित्तदुष्टस्य घुष्टादेः। एकप्रकरणोपदेशश्चैषां स्नातकत्वज्ञापनार्थम् । प्रायश्चित्तं चैतेष्वेकादशे वक्ष्यति । यदि तु सर्वेष्वेवं प्रायश्चित्तं स्यात्तदा भुक्त्वातोऽन्यतमस्यान्नं दुष्टमित्यभ्यधास्यत् नत्वन्यतमस्य तु भुक्त्वेति । 'तस्मादेकप्रकरणाद्यन्मेधातिथिरभ्यधात् । प्रायश्चित्तमिदं युक्तं शुक्तादौ तदसुंदरम् ॥' अप्रकरणे च प्रायश्चित्तस्याभिधानं लाघवार्थम् । तत्र क्रियमाणे मत्तादिग्रहणमपि कर्तव्यं स्यात् ॥ २२२ ॥

नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः।
आददीताममेवास्मादवृत्तावेकरात्रिकम् ॥ २२३ ॥

 नाद्यादिति ॥ अविशेषेण शूद्रान्नं प्रतिषिद्धं तस्येदानीं विशिष्टविषयतोच्यते । अश्राद्धिनः श्राद्धादिपञ्चयज्ञशून्यस्य शूद्रस्य शास्त्रविद्द्विजः पक्वान्नं न भुञ्जीत, किंत्वन्नान्तराभावे सत्येकरात्रनिर्वाहोचितमाममेवान्नमस्माद्गृह्णीयान्न तु पक्वान्नम् ॥ २२३ ॥

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।
मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ २२४ ॥