पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२०४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


. n १७० मनुस्मृतिः। [अध्यायः४ पिशुनानृतिनोश्चान्नं ऋतुविक्रयिणस्तथा । शैलूषतुन्नवायानं कृतघ्नस्यान्नमेव च ॥२१४ ॥ पिशुनेति ॥ पिशुनः परोक्षे परापवादभापणपरः, अनृतीत्यतिशयेनानृतवादी झूटसाक्ष्यादिः, ऋतुविक्रयिकः मदीययागस्य फलं तव भवत्वित्यभिधाय यो धनं गृह्णाति, शैलूपो नटः, तुन्नवायः सौचिकः, कृतनो यः कृतोपकारस्यापकारे प्रवर्तते तस्यान्नं न भुञ्जीत ॥ २१४ ॥ कारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥ २१५ ॥ कारस्येति ॥ कारस्य लोहकारस्य, निपादस्य दशमाध्यायोक्तस्य, नटगायन- व्यतिरिक्तस्य रङ्गावतरणजीविनः, सुवर्णकारस्य, वेणोर्भेदनेन यो जीवति, बुरुड इति विश्वरूपः । शस्त्रं लोहः तद्विक्रयिणश्चान्नं न भुञ्जीत ॥ २१५ ॥ श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिहे ॥ २१६ ॥ श्ववतामिति ॥ आखेटकाद्यर्थ शुनः पोषकाणां, मद्यविक्रयिणां, वस्त्रधावकस्य, कुसुम्भादिना वस्त्ररागकृतः, निर्दयस्य, यस्य चोपपनिर्गृहे जारश्च यस्याज्ञानतो गृहे स्थितस्तस्य गेहे नाद्यात् ॥ २१६ ॥ मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः। अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ २१७ ॥ मृप्यन्तीति ॥ गृह इत्यनुपज्यते । गेहे ज्ञातं भाजारं ये सहन्ते तेषामन्नं न भुञ्जीत । तेन गृहानिःसारिताया जारसहने नैप दोपः । तथा सर्वकर्मसु स्त्रीपरत- ब्राणां, अनिर्गताशौचं च सूतकान्नं, अतुष्टिकरमेव च न भुञ्जीत ॥ २१७ ॥ राजानं तेज आदत्ते शूद्रानं ब्रह्मवर्चसम् । आयुः सुवर्णकारानं यशश्चर्मावकर्तिनः ।। २१८ ॥ राजान्नमिति ॥ राजान्नं तेजो नाशयति । इतएव दोपदर्शनात्तदन्नभक्षणनिपेधः कल्प्यते । एवमुत्तरत्रापि पूर्वमनिपिद्धस्य दोपदर्शनादेव निषेधकल्पनम् । 'नाद्या- च्छूद्रस्य पक्वान्नम्' इति निपेधिप्यति तदतिक्रमणफलकथनमिदम् । शूद्रस्य पक्वान्न- मध्ययनादिनिमित्तं तेजो नाशयति । सुवर्णकारस्यान्नमायुः, चर्मकारान्नं ख्याति नाशयति ॥ २१८ ॥ कारुकानं प्रजां हन्ति वलं निणेजकस्य च । गणानं गणिकानं च लोकेभ्यः परिकृन्तति ॥ २१९ ॥ कारुकान्नमिति ॥ कारुकस्य सूपकारादेरन्नं प्रजामपत्यं निहन्ति । चर्मकारादेः