अन्तर्गतेति ॥ अन्तर्गतः शवो यस्मिन्ग्रामे ज्ञायते तत्र । वृषलोऽधार्मिकस्तस्य संनिधौ नतु शूद्रः । तस्य 'न शूद्रजनसंनिधौ' इति निषेधात् । रुद्यमाने रोदनध्वनौ । भावे लकारः । कार्यान्तरार्थं बहुजनमेलके सत्यनध्यायः ॥ १०८ ॥
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने । |
उदक इति ॥ उदकमध्ये मध्यरात्रे च मुहूर्तचतुष्टये च निशायां च चतुर्मुहूर्तमिति गौतमस्मरणात् । गोविन्दराजस्तु रात्रिमध्यप्रहरद्वय इत्युक्तवान्। तथा मूत्रपुरीषोत्सर्गकालेऽन्नभोजनादिना चोच्छिष्टो निमन्त्रणसमयादारभ्य श्राद्धभोजनाहोरात्रं यावन्मनसापि वेदं न चिन्तयेत् ॥ १०९ ॥
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । |
प्रतिगृह्येति ॥ एक एवोद्दिश्यते यत्र श्राद्धे तदेकोद्दिष्टं नवश्राद्धं तत्केतनं निमन्त्रणं गृहीत्वा निमन्त्रणादारभ्य क्षत्रियस्य जनपदेश्वरस्य पुत्रजन्मादिसूतके राहोश्च सूतकं चन्द्रसूर्योपरागः तत्र त्रिरात्रं वेदं नाधीयीत ॥ ११० ॥
यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । |
यावदिति ॥ यावदेकस्यानुदिष्टस्योच्छिष्टस्य सकुङ्कुमादेर्गन्धो लेपश्च ब्राह्मणस्य शास्त्रविदो देहे तिष्ठति तावन्त्यहोरात्राण्यूर्ध्वमपि वेदं नाधीयीत ॥ १११ ॥
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । |
शयान इति ॥ शय्यायां पतिताङ्ग आसनारूढपादः कृतावसक्थिको वा मांसं भुक्त्वा जननमरणाशौचिनां चान्नं भुक्त्वा नाधीयीत ॥ ११२ ॥
नीहारे बाणशब्दे च संध्ययोरेव चोभयोः। |
नीहार इति ॥ नीहारे धूलिकायां बाणशब्दे शरध्वनौ । 'बाणो वीणाविशेषः' इत्यन्ये । प्रातःसायंसंध्ययोरमावास्याचतुर्दशीपौर्णमास्यष्टमीषु नाधीयीत । अष्टकासूत्तरत्र निषेधात्पौर्णमास्यादिसाहचर्यादष्टकाशब्दोऽष्टमीतिथिपरः ॥ ११३ ॥
विशेषदोषमाह-
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । |