पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
[अध्यायः ४
मनुस्मृतिः।

 अन्तर्गतेति ॥ अन्तर्गतः शवो यस्मिन्ग्रामे ज्ञायते तत्र । वृषलोऽधार्मिकस्तस्य संनिधौ नतु शूद्रः । तस्य 'न शूद्रजनसंनिधौ' इति निषेधात् । रुद्यमाने रोदनध्वनौ । भावे लकारः । कार्यान्तरार्थं बहुजनमेलके सत्यनध्यायः ॥ १०८ ॥

उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।
उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिन्तयेत् ॥ १०९॥

 उदक इति ॥ उदकमध्ये मध्यरात्रे च मुहूर्तचतुष्टये च निशायां च चतुर्मुहूर्तमिति गौतमस्मरणात् । गोविन्दराजस्तु रात्रिमध्यप्रहरद्वय इत्युक्तवान्। तथा मूत्रपुरीषोत्सर्गकालेऽन्नभोजनादिना चोच्छिष्टो निमन्त्रणसमयादारभ्य श्राद्धभोजनाहोरात्रं यावन्मनसापि वेदं न चिन्तयेत् ॥ १०९ ॥

प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥ ११० ॥

 प्रतिगृह्येति ॥ एक एवोद्दिश्यते यत्र श्राद्धे तदेकोद्दिष्टं नवश्राद्धं तत्केतनं निमन्त्रणं गृहीत्वा निमन्त्रणादारभ्य क्षत्रियस्य जनपदेश्वरस्य पुत्रजन्मादिसूतके राहोश्च सूतकं चन्द्रसूर्योपरागः तत्र त्रिरात्रं वेदं नाधीयीत ॥ ११० ॥

यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति ।
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥ १११ ॥

 यावदिति ॥ यावदेकस्यानुदिष्टस्योच्छिष्टस्य सकुङ्कुमादेर्गन्धो लेपश्च ब्राह्मणस्य शास्त्रविदो देहे तिष्ठति तावन्त्यहोरात्राण्यूर्ध्वमपि वेदं नाधीयीत ॥ १११ ॥

शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥११२ ॥

 शयान इति ॥ शय्यायां पतिताङ्ग आसनारूढपादः कृतावसक्थिको वा मांसं भुक्त्वा जननमरणाशौचिनां चान्नं भुक्त्वा नाधीयीत ॥ ११२ ॥

नीहारे बाणशब्दे च संध्ययोरेव चोभयोः।
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥ ११३ ॥

 नीहार इति ॥ नीहारे धूलिकायां बाणशब्दे शरध्वनौ । 'बाणो वीणाविशेषः' इत्यन्ये । प्रातःसायंसंध्ययोरमावास्याचतुर्दशीपौर्णमास्यष्टमीषु नाधीयीत । अष्टकासूत्तरत्र निषेधात्पौर्णमास्यादिसाहचर्यादष्टकाशब्दोऽष्टमीतिथिपरः ॥ ११३ ॥

 विशेषदोषमाह-

अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥११४ ॥