पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१५३
मन्वर्थमुक्तावलीसंवलिता।

 अमावास्येति ॥ यस्मादमावास्या गुरुं हन्ति, शिष्यं हन्ति चतुर्दशी, वेदं चाष्टमीपौर्णमास्यौ विस्मारयतः, तस्मात्ता अध्ययनाध्यापनयोः परित्यजेत् ॥ ११४ ॥

पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद्द्विजः ॥ ११५ ॥

 पांसुवर्ष इति ॥ धूलीवर्षे दिशां दाहे सृगालकुक्कुरगर्दभोष्ट्रेषु च रुवत्सु पङ्क्तौ चोपविश्य प्रकृतत्वात्सृगालश्वखरादीनामेव ब्राह्मणो न पठेत् ॥ ११५ ॥

नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा।
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ ११६ ॥

 नाधीयीतेति ॥ श्मशानसमीपे, ग्रामसमीपे, गोष्ठे च, मैथुनसमयधृतवासः परिधाय, श्राद्धीयं च सिद्धान्नादि प्रतिगृह्य नाधीयीत ॥ ११६॥

प्राणि वा यदि वाऽप्राणि यत्किंचिच्छ्राद्धिकं भवेत् ।
तदालभ्याप्यनध्यायः पाण्यासो हि द्विजःस्मृतः॥११७॥

 प्राणि वेति ॥ श्राद्धिकमन्नादि भुक्त्वा तावदनध्यायो भवतीत्युक्तम् । प्राणि वा गवाश्वादि, अप्राणि वा वस्त्रमाल्यादि, प्रतिग्रहकाले हस्तेन गृहीत्वानध्यायो भवति । यस्मात्पाणिरेवास्यमस्येति पाण्यास्यो हि ब्राह्मणः स्मृतः ॥ ११७ ॥

चोरैरुपप्लुते ग्रामे संभ्रमे चाग्निकारिते ।
आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च ॥ ११८ ॥

 चोरैरिति ॥ चौरैरुपप्लते ग्रामे गृहादिदाहादिकृते भये दिव्यान्तरिक्षभौमेषु चाद्भुतेषूत्पातेष्वाकालिकमनध्यायं जानीयात् ॥ ११८ ॥

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥ ११९ ॥

 उपाकर्मणीति ॥ उपाकर्मणि चोत्सर्गे त्रिरात्रमध्ययनक्षेपणम् । उत्सर्गे पक्षिण्यहोरात्रावनध्यायावुक्तौ तत्रायं धर्मनैपुण्यकामं प्रति त्रिरात्रोपदेशः। तथाग्रहायण्या ऊर्ध्वं कृष्णपक्षाष्टमीषु तिसृषु चतसृषु चाहोरात्रमनध्यायः । दिवाकालमात्रसद्भावेऽपि पौर्णमास्यष्टकासु चेत्यनेन यावदष्टम्येवानध्याय इतराष्टमीषूक्त इत्यपुनरुक्तिः। ऋत्वन्ताहोरात्रेषु चानध्यायः ॥ ११९ ॥

नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् ।
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः॥१२०॥

 नाधीयीतेति ॥ तुरगतरुकरिनौकाखरोष्ट्रारूढः तथोषरदेशस्थः शकटादियानेन गच्छन्नाधीयीत ॥ १२०॥