पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
[अध्यायः ४
मनुस्मृतिः।

 नवेनेति ॥ यस्मान्नवेन हव्येन पशुवदामेनानर्चिता अकृतयागा अग्नयो नवान्नमांसाभिलाषिणोऽस्याहिताग्नेः प्राणानेवाग्निहोत्रिणः खादितुमिच्छन्ति । गर्धोऽभिलापातिशयः । गृधेर्घजन्तस्य रूपं सोऽस्यास्तीति गर्धी । मत्वर्थीय इनिः॥ २८ ॥

आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।
नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः॥ २९ ॥

 आसनाशनेति ॥ यथाशक्त्यासनभोजनादिभिरनर्चितोऽतिथिरस्य गृहस्थस्य गृहे न वसेत् । अनेन शक्तितोऽतिथिं पूजयेदित्युक्तमप्युत्तरार्थमनूद्यते ॥ २९ ॥

पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान् ।
हैतुकान्वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ ३० ॥

 पाषण्डिन इति ॥ पाषण्डिनो वेदबाह्यव्रतलिङ्गधारिणः, शाक्यभिक्षुकक्षपणकादयः विकर्मस्थाः प्रतिषिद्धवृत्तिजीविनः, बैडालव्रतिकबकवृत्ती वक्ष्यमाणलक्षणौ, शठा वेदेष्वश्रद्दधानाः, हैतुका वेदविरोधितर्कव्यवहारिणः, एतानतिथिकालोपस्थितान्वाङ्मात्रेणापि न पूजयेत् । पूजारहितेऽन्नदानमात्रं तु 'शक्तितोऽपचमानेभ्यः' इत्यनुज्ञातमेव ॥ ३०॥

वेदविद्याव्रतस्नाताश्रोत्रियान्गृहमेधिनः।
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ३१ ॥

 वेदविद्येति ॥ वेदविद्याव्रतस्नातानिति विद्यास्नातकव्रतस्नातकोभयस्नातकास्त्रयोऽपि गृह्यन्ते । यथाह हारीतः—'यः समाप्य वेदानसमाप्य व्रतानि समावर्तते स विद्यास्नातकः । यः समाप्य व्रतान्यसमाप्य वेदान्समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः।' यद्यपि स्नातकधर्मत्वेनैव स्नातकमात्रप्राप्तिस्तथापि श्रोत्रियत्वं विवक्षितं । तान्स्नातकाश्रोत्रियान्हव्यकव्येन पूजयेत्, विपरीतान्पुनर्वर्जयेत् ॥ ३१ ॥

शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना।
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ ३२ ॥

 शक्तित इति ॥अपचमाना ब्रह्मचारिपरिव्राजकाः पाषण्डादयः। ब्रह्मचारिपरिव्राजकानामुक्तमप्यन्नदानं पचमानापेक्षयातिशयार्थं स्नातकव्रतत्वार्थें च पुनरुच्यते । मेधातिथिगोविन्दराजौ तु 'भिक्षां च भिक्षवे दद्याद्विधिवब्रह्मचारिणः' इति ब्रह्मचारिपरिव्राजकयोरुक्तत्वात्पाषण्ड्यादिविषयत्वमेवास्य वचनस्येत्यूचतुः । स्वकुटुम्बानुरोधेन वृक्षादिपर्यन्तप्राणिभ्योऽपि जलादिनापि विभागः कर्तव्यः ॥ ३२ ॥

राजतो धनमन्विच्छेत्संसीदन्स्नातकः क्षुधा।
याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिः ॥३३॥

 राजत इति ॥ 'न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः' इति निषेधाद्राजश-