पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१७३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ४] मन्वर्थमुक्तावलीसंवलिता। १३९ ब्दोऽत्र क्षत्रियनृपतिपरः । स्नातकः क्षुधावसीदन्द्विजातिप्रतिग्रहस्य संभवेऽपि यथाशास्त्रवर्तिनः क्षत्रियाद्राज्ञो याज्यशिप्याभ्यां वा प्रथमं धनमभिलपेत् । राज्ञो महाधनत्वेन पीडाविरहात् । याज्यशिष्ययोश्च कृतोपकारतया प्रत्युपकारप्रवण- स्वात् । तदसंभवे त्वन्यस्मादपि द्विजाद्धनमाददीत । तदभावे तु 'सर्वतः प्रतिगृह्णी- यात्' इत्यापद्धर्मं वक्ष्यति । एवंचानापदि प्रथमं क्षत्रियनृपयाज्यशिप्येभ्यः प्रति- ग्रहनियमार्थं वचनम् । अतएवाह न त्वन्यत इति । स्थितिः शास्त्रमर्यादा । नच संसीदन्नित्यभिधानादापद्धर्मविषयत्वमस्य वाच्यम् । अव्यभिचारादनापटप्रकरणात् । संसीदन्नित्यस्य चोपात्तधनाभावपरत्वात् । नच धनाभावमात्रमापत्। किंतु तस्मि- न्सति विहितोपायासंभवात् । अन्यथा सद्यःप्रक्षालकोऽप्यापद्वृत्तिः स्यात् । यदि चापद्विषयत्वमस्य भवेत्तदा न त्वन्यत इत्यनेन 'सर्वतः प्रतिगृह्णीयात्' इति विरु- ध्येत । यच्चापत्प्रकरणे 'सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः। याच्यः स्यात्' इत्युक्तं तच्छूदनुपविषयमेवं राजादिप्रतिग्रहासंभवे ॥३३॥ न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथंचन । न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ ३४ ॥ न सीदेदिति ॥ विद्यादियोगात्प्रतिग्रहशनोऽपि स्नातको ब्राह्मण उक्तराजप्रतिन- हादिलाभे सति न क्षुधावसन्नो भवेत् । नच धने संभवति जीणे मलिने च वाससी बिभृयात् ॥ ३४ ॥ क्लृप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः। खाध्याये चैव युक्तः स्यानित्यमात्महितेषु च ॥ ३५ ॥ क्लुप्तकेशेति ॥ कल्पनं छेदनं स्टूनकेशनखश्मश्रुः तपःक्लेशसहो दान्तः शुक्कुवासा बाह्याभ्यन्तरशौचसंपन्नो वेदाभ्यासयुक्त औषधोपयोगादिना चात्महितपरःस्यात्३५ वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभे रोक्मे च कुण्डले ॥ ३६॥ वैणवीमिति ॥ वेणुदण्डमुदकसहितं च कमण्डलु यज्ञोपवीतं कुशमुष्टिं शोभने च सौवर्णकुण्डले धारयेत् ॥३६ ॥ नेक्षेतोद्यन्तमादित्यं नास्तंयन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ ३७॥ नेक्षेतेति ॥ उद्यन्तमस्तंयन्तं च सूर्यबिम्बं संपूर्ण नेक्षेत । उपसृष्टं ग्रहोपरनं वक्रायुपसर्गयुक्तं च, वारिस्थं जलप्रतिबिम्बितं, नभोमध्यंगतं मध्यंदिनसमये ३७ न लङ्घयेद्वत्सतत्रीं न प्रधावेच वर्षति । न चोदके निरीक्षेत स्खं रूपमिति धारणा ॥ ३८॥