नवेनेति ॥ यस्मान्नवेन हव्येन पशुवदामेनानर्चिता अकृतयागा अग्नयो नवान्नमांसाभिलाषिणोऽस्याहिताग्नेः प्राणानेवाग्निहोत्रिणः खादितुमिच्छन्ति । गर्धोऽभिलापातिशयः । गृधेर्घजन्तस्य रूपं सोऽस्यास्तीति गर्धी । मत्वर्थीय इनिः॥ २८ ॥
आसनाशनशय्याभिरद्भिर्मूलफलेन वा । |
आसनाशनेति ॥ यथाशक्त्यासनभोजनादिभिरनर्चितोऽतिथिरस्य गृहस्थस्य गृहे न वसेत् । अनेन शक्तितोऽतिथिं पूजयेदित्युक्तमप्युत्तरार्थमनूद्यते ॥ २९ ॥
पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान् । |
पाषण्डिन इति ॥ पाषण्डिनो वेदबाह्यव्रतलिङ्गधारिणः, शाक्यभिक्षुकक्षपणकादयः विकर्मस्थाः प्रतिषिद्धवृत्तिजीविनः, बैडालव्रतिकबकवृत्ती वक्ष्यमाणलक्षणौ, शठा वेदेष्वश्रद्दधानाः, हैतुका वेदविरोधितर्कव्यवहारिणः, एतानतिथिकालोपस्थितान्वाङ्मात्रेणापि न पूजयेत् । पूजारहितेऽन्नदानमात्रं तु 'शक्तितोऽपचमानेभ्यः' इत्यनुज्ञातमेव ॥ ३०॥
वेदविद्याव्रतस्नाताश्रोत्रियान्गृहमेधिनः। |
वेदविद्येति ॥ वेदविद्याव्रतस्नातानिति विद्यास्नातकव्रतस्नातकोभयस्नातकास्त्रयोऽपि गृह्यन्ते । यथाह हारीतः—'यः समाप्य वेदानसमाप्य व्रतानि समावर्तते स विद्यास्नातकः । यः समाप्य व्रतान्यसमाप्य वेदान्समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः।' यद्यपि स्नातकधर्मत्वेनैव स्नातकमात्रप्राप्तिस्तथापि श्रोत्रियत्वं विवक्षितं । तान्स्नातकाश्रोत्रियान्हव्यकव्येन पूजयेत्, विपरीतान्पुनर्वर्जयेत् ॥ ३१ ॥
शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना। |
शक्तित इति ॥अपचमाना ब्रह्मचारिपरिव्राजकाः पाषण्डादयः। ब्रह्मचारिपरिव्राजकानामुक्तमप्यन्नदानं पचमानापेक्षयातिशयार्थं स्नातकव्रतत्वार्थें च पुनरुच्यते । मेधातिथिगोविन्दराजौ तु 'भिक्षां च भिक्षवे दद्याद्विधिवब्रह्मचारिणः' इति ब्रह्मचारिपरिव्राजकयोरुक्तत्वात्पाषण्ड्यादिविषयत्वमेवास्य वचनस्येत्यूचतुः । स्वकुटुम्बानुरोधेन वृक्षादिपर्यन्तप्राणिभ्योऽपि जलादिनापि विभागः कर्तव्यः ॥ ३२ ॥
राजतो धनमन्विच्छेत्संसीदन्स्नातकः क्षुधा। |
राजत इति ॥ 'न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः' इति निषेधाद्राजश-