ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा । |
ज्ञानेनैवेति ॥ अपरे विप्रा ब्रह्मनिष्ठाः सर्वथा ब्रह्मज्ञानेनैवैतैर्मखैर्यजन्ति । एतांश्च यज्ञाननुतिष्ठन्ति । कथमेतदित्याह-ज्ञानं ब्रह्म 'सत्यं ज्ञानमनन्तम्' इत्यादिश्रुतिषु प्रसिद्धम् । ज्ञानमूलामेषां ज्ञानानां क्रियामुत्पत्तिं जानन्तः ज्ञायतेऽनेनेति ज्ञानं चक्षुरिव चक्षुः ज्ञानचक्षुषोपनिषदा सर्वं खल्विदं ब्रह्म तज्जलानित्यादिकया पञ्चयज्ञानपि ब्रह्मोत्पत्तिकाले ब्रह्मात्मकान्ध्यायन्तः संपादयन्ति। पञ्चयज्ञफलमश्नुवत इत्यर्थः । श्लोकत्रयेण ब्रह्मनिष्ठानां वेदसंन्यासिनां गृहस्थानाममी विधयः॥ २४ ॥
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा । |
अग्निहोत्रमिति ॥ उदितहोमपक्षे दिनस्यादौ निशायाश्चादौ । अनुदितहोमपक्षे दिनस्यान्ते निशायाश्चान्ते । यद्वा उदितहोमपक्षे दिनस्यादौ दिनान्ते च । अनुदितहोमपक्षे निशादौ निशान्ते च अग्निहोत्रं कुर्यात् । कृष्णपक्षार्धमासान्ते दर्शाख्येन कर्मणा शुक्लपक्षार्धे च पौर्णमासाख्येन यजेत् ॥ २५ ॥
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः । |
सस्यान्त इति ॥ पूर्वार्जितधान्यादिसस्ये समाप्ते 'शरदि नवानाम्' इति सूत्रकारवचनादसमाप्तेऽपि पूर्वसस्ये नवसस्योत्पत्तावाग्रयणेन यजेत । सस्यक्षयस्यानियतत्वात् , धनिनां बहुहायनजीवनोचितधान्यसंभवाच्च । सस्यान्तग्रहणाच्च नवसस्योत्पत्तिरेवाभिप्रेता नियतत्वात्तस्याः प्रत्यब्दं निमित्तत्वोत्पत्तेः । ऋतुसंवत्सर इत्येतन्मताश्रयणेन चत्वारश्चत्वारो मासा ऋतवस्तदन्तेऽध्वरैश्चातुर्मासाख्यैर्यागैर्यजेत । अयनयोरनयोरुत्तरदक्षिणयोरादौ पशुना यजेत पशुवधाख्यं यागमनुतिष्ठेत् । ज्योतिःशास्त्रे चैत्रशुक्लप्रतिपदादिवर्षगणनाच्छिशिरेण समाप्ते वर्षे वसन्ते सोमरससाध्यैरग्निष्टोमादियागैर्यजेत ॥ २६ ।
नानिष्ट्वा नवसस्पेष्ट्या पशुना चाग्निमान्द्विजः। |
नानिष्ट्वेति ॥ आहिताग्निर्द्विजो दीर्घमायुर्जीवितुमिच्छन्नाग्रयणमकृत्वा नवान्नं न भक्षयेत् । नच पशुयागमकृत्वा मांसमश्नीयात् ॥ २७ ॥
दोषं कथयन्ननित्यतामनयोराह-
नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः। |