पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
[अध्यायः ४
मनुस्मृतिः।

चरँल्लोके प्रवर्तेत । यथा यौवने स्रग्गन्धलेपनादिधारणं त्रिवर्गानुसारी वाग्बुद्धिश्च एवं कर्मादिष्वप्युन्नेयम् ॥ १८ ॥

बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ १९ ॥

 बुद्धीति ॥ वेदाविरुद्धानि शीघ्रं बुद्धिवृद्धिजनकानि व्याकरणमीमांसास्मृतिपुराणन्यायादीनि शास्त्राणि, तथा धन्यानि धनाय हितान्यर्थशास्त्राणि बार्हस्पत्यौशनसादीनि, तथा हितानि दृष्टोपकारकाणि वैद्यकज्योतिषादीनि, तथा पर्यायकथनेन वेदार्थावबोधकान्निगमाख्यांश्च ग्रन्थान्नित्यं पर्यालोचयेत् ॥ १९ ॥

यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथा तथा विजानाति विज्ञानं चास्य रोचते ॥२०॥

 यथा यथेति ॥ यस्माद्यथा यथा पुरुषः शास्त्रं सम्यगभ्यस्यति तथा तथा विशेषेण जानाति, शास्त्रन्तरविषयमपि चास्य विज्ञानं रोचत उज्वलं भवति । दीप्त्यर्थत्वाद्रुचेरभिलाषार्थत्वाभावात् 'रुच्यर्थानां प्रीयमाणः' इति न संप्रदानसंज्ञा॥२०॥

ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ २१ ॥

 ऋषियज्ञमिति ॥ स्वाध्यायादीन्पञ्चयज्ञान्यथाशक्ति न त्यजेत् । तृतीयाध्यायविहितानामपि पञ्चयज्ञानामिह निर्देश उत्तरत्र विशेषविधानार्थः स्नातकव्रतत्वबोधनार्थश्च ॥ २१ ॥

एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः।
अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥ २२ ॥

 एतानेक इति ॥ एके गृहस्था बाह्यान्तरयज्ञानुष्ठानशास्त्रज्ञा एतान्पञ्चमहायज्ञान् ब्रह्मज्ञानप्रकर्षाद्बहिरचेष्टमानाः पञ्चसु बुद्धीन्द्रियेष्वेवं पञ्चरूपज्ञानादिसंयमं कुर्वन्तः संपादयन्ति । यज्ञानां होमत्वानुपपत्तेः संपादनार्थो जुहोतिः ॥ २२ ॥

वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥ २३ ॥

 वाचीति ॥ एके गृहस्था ब्रह्मविदो वाचि प्राणवायौ च यज्ञनिर्वृत्तिमक्षयफलां जानन्तः सततं वाचि प्राणं च जुह्वति । वाचं च प्राणे भाषमाणेन च वाचि प्राणं जुहोतीति । अभाषमाणेनोच्छुसता प्राणे वाचं जुहोमीति व्याख्यातव्यमित्यनेन विधीयते। यथा कौषीतकिरहस्यब्राह्मणम् । ‘यावद्वै पुरुषो भाषते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि जुहोति यावद्धि पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति एतेऽनन्ते अमृते आहुती जाग्रत्स्वपंश्च सततं जुहोति । अथवा अन्या आहुतयोऽनन्तरन्यस्ताः कर्ममय्यो हि भवन्त्येवं हि तस्यैतत्पूर्वे विद्वांसोऽग्निहोत्रं जुहवांचक्रुः' इति ॥ २३ ॥