पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अष्टमः सर्गः ।


श्रमजलपृषतावलिः स्तनाग्रे
 तरलदृशस्तरलं विनाभिरामा ।
निशितपुलकसूचिरुद्धरन्ध्रा
 स्मरघटितेव रराज हारयष्टिः ॥ १० ॥

स्नपितमिव हिमैः प्रमोदबाष्पै-
 रविरलपक्ष्मपुटे चिरं निरुद्धैः ।
नयनकुवलयद्वयं नितान्तं
 विरहमहोष्मणि तत्तमायताक्ष्याः ॥ ११ ॥

अतिथिरयमतर्कितप्रभावः
 सखि ! विभवोत्तरमर्हणीय एषः ।
तदिह वितर विष्टरं विशिष्टं
 न हि बहुमानमृतेऽर्हणा महत्सु ॥ १२ ॥

निभृतमिति सखी तया नियुक्ता
 मनसि निषण्णमपि स्थिरं कुमार्याः ।
प्रतिकृतिमिव वीक्षितुं पुरस्ता-
 न्नरपतिमाशु निवेशयाञ्चकार ॥ १३ ॥

तदनु परिजने विनिर्गते ता-
 मकथयदात्मदशां विशामधीशः ।
न खलु दयितयोर्मिथोऽनुरागो
 रसविमुखेषु मुधा निवेदनीयः ॥ १४ ॥

वरतनु ! तव कातराः कटाक्षाः
 क्वचन कुतोऽपि यदृच्छया प्रवृत्ताः ।