श्रमजलपृषतावलिः स्तनाग्रे
तरलदृशस्तरलं विनाभिरामा ।
निशितपुलकसूचिरुद्धरन्ध्रा
स्मरघटितेव रराज हारयष्टिः ॥ १० ॥
स्नपितमिव हिमैः प्रमोदबाष्पै-
रविरलपक्ष्मपुटे चिरं निरुद्धैः ।
नयनकुवलयद्वयं नितान्तं
विरहमहोष्मणि तत्तमायताक्ष्याः ॥ ११ ॥
अतिथिरयमतर्कितप्रभावः
सखि ! विभवोत्तरमर्हणीय एषः ।
तदिह वितर विष्टरं विशिष्टं
न हि बहुमानमृतेऽर्हणा महत्सु ॥ १२ ॥
निभृतमिति सखी तया नियुक्ता
मनसि निषण्णमपि स्थिरं कुमार्याः ।
प्रतिकृतिमिव वीक्षितुं पुरस्ता-
न्नरपतिमाशु निवेशयाञ्चकार ॥ १३ ॥
तदनु परिजने विनिर्गते ता-
मकथयदात्मदशां विशामधीशः ।
न खलु दयितयोर्मिथोऽनुरागो
रसविमुखेषु मुधा निवेदनीयः ॥ १४ ॥
वरतनु ! तव कातराः कटाक्षाः
क्वचन कुतोऽपि यदृच्छया प्रवृत्ताः ।