पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
भरतचरिते


मम हृदि पतितास्तुदन्ति गाढं
 मनसिशयस्य शिलीमुखा इवान्ये ॥ १५ ॥

स्मरशरचकितं मनो मदीयं
 त्वयि शरणार्थमिवावगाढमेतत् ।
पुनरपि परिदूयते नितान्तं
 क्वनु खलु शाम्यति सर्पिषा कृशानुः ॥ १६ ॥

सुतनु ! तव मुखारविन्दमेतत्
 कुचभरचक्रयुगं च मानसेऽस्मिन् ।
विकसति मम केन तन्निषेव्यं
 न पुनरपुण्यजनेन चेतसापि ॥ १७ ॥

गुरुरपि मुनिरावयोर्हितार्थी
 कमपि नियोज्य वनान्तरं जगाम ।
तदिह मम मुनीन्द्रवह्निशुद्धा
 कनकमयीव भवाद्य कण्ठभूषा ॥ १८ ॥

इति नरपतिना समीरिता सा
 न परमपत्रपया न किचिदूचे ।
अखिलमवनतानना तथापि
 स्तनतटपातिभिरश्रुभिः शशंस ॥ १९ ॥

तदनु स विदि[१]तेङ्गि[२]तः कुमार्याः
 स्फुटतरमात्मनि भावमाकलय्य ।
सहृदय इव सत्कृते[३]रनुक्तं
 कमपि विशेषमसौ मुदं जगाम ॥ २० ॥


  1. ,
  2. 'हि',
  3. 'तै' ग, पाठः.